पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला॥ चक्रेऽ1वक्रं कृपाणे न कृपणमसुरारातिभिः पात्यमाने दैत्यं पादेन देवी महिषितवपुषं पिंषती वः पुनातु ॥ ५२ ।। महिषितवपुषं दैत्यं पादेन पिंषती चूर्णयन्ती देवी वः पुनातु । किंभू- तम् । असुरारातिभिर्देवैः पात्यमाने शूले शैलवदविकम्पम् । इषौ शरे न निमिषितं निर्निमेषलोचनम् । पट्टिशे साट्टहासम् । प्रासे कुन्ते सोत्प्रासं सम- नाक्सिराम् । कुलिशे वज्रेऽपि अन्याकुलम् । शङ्कौ आयुधविशेषे न जात. शङ्कम् । चक्रेऽवक्रं सरलमेव स्थितम् । कृपाणे खड़गे न कृपणं न दीनम् । असुरारातिभिः पात्यमाने इति सर्वत्र योज्यम् ॥ चक्रे चक्रस्य नाख्या न च खलु परशोर्न क्षुरप्रस्य नासे- र्यद्वक्रं कैतवाविष्कृतमहिषतनौ विद्विषत्याजिभाजि । प्रोताप्रासेन मूर्ध्नः सघृणमभिमुखायातया कालरात्र्या कल्याणान्याननाब्जं सृजतु तदसृजो धारया वक्रितं वः ॥५३॥ यञ्चक्रस्य । अर्थान्महिषक्षिप्तस्य । अख्या धारया वक्रं न चक्रे न च खलु परशोः कुठारस्य, अख्या । न क्षुरप्रस्य बाणविशेषस्य । न चासेः खड्ग- स्य । कस्मिन्सति । कैतवाविष्कृतमहिषतनौ कपटमहिषे विद्विषति शत्रौ आ- जिभाजि युद्धं कुर्वति सति । किं तु प्रासेन कुन्तेन प्रोतान्मूर्ध्नो महिषमस्त- कादभिमुखायातया संमुखागतया असृजो रुधिरस्य धारया सघृणं यथा स्या- देवं वक्रितं तत्कालरात्र्या भगवत्या आननाब्जं मुखकमलं वः कल्याणानि सृजतु करोतु । सङ्ग्रामे नानायुधपातेऽपि भगवत्या मुखं न कूणितम् । किंतु संमुखमापतन्त्या महिषमस्तकोद्भूतरुधिरधारया घृणया कूणितमिति भावः ॥ हस्तादुत्पत्य यान्त्या गगनमगणिताधैर्यवीर्यावलेपं वैलक्ष्येणेव पाण्डुद्युतिमदितिसुतारातिमापादयन्त्याः । देर्पानल्पाट्टहासद्विगुणतरसिताः सप्तलोकीजनन्या- स्तर्जन्या जन्यदूतो नैखरुचिततयस्तर्जयन्त्या जयन्ति ॥ ५४॥ तर्जयन्त्या भर्त्संयन्त्या । अर्थादैत्यान् । सप्तलोकीजनन्या जगदम्बाया- १. 'वक्रं कृपाण'. २. 'दर्पानल्पाहासाद्विगुणितरसिताः'. ३. 'नखरुचिररुचः