पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

1 चण्डीशतकम् । २५ मुक्तेन बाष्पेण स्वं नाम चन्द्रे लिखितम् । हरेण गौरीसमक्षं कामो दग्धः, तया च काममुत्पादयन्त्या हरश्चरणयोः पातित इति कृताभ्यधिकं प्रतिकृतम् ॥ तु1ङ्गां शृङ्गाग्रभूमिं श्रितवति मरुतां प्रेत2काये निकाये कुञ्जौत्सुक्याद्विशत्सु श्रुतिकुहरपुटं द्राक्क्कुप्कुञ्जरेषु । स्मित्वा वः संहृतासोर्दशनरुचिकृताकाण्डकैलासभासः पायात्पृष्ठाधिरूढे स्मरमुषि महिषस्योच्चहासेव देवी ॥ ५० ॥ स्मित्वा संहृतासोर्दशनरुचिकृताकाण्डकैलासभासो महिषस्य प्रेतकाये मरुतां निकाये देवसमूहे शृङ्गाग्रभूमिं श्रितवति सति । ककुष्कुञ्जरेषु दिग्ग- जेषु कुञ्जौत्सुक्याच्छ्रुतिकुहरपुटं द्राक् विशत्सु सत्सु । स्मरमुषि शिवे पृष्ठा- धिरूढे सति उच्चहासेव देवी वः पायात् ॥ कृत्वा 3पातालपङ्के क्षयरयमिलितैकार्णवेच्छावगाहं दाहान्नेत्रत्रयाग्नेर्विलयन4विगलच्छृङ्गशून्योत्तमाङ्गः । क्रीडाक्रोडाभिशङ्कां विदधदपिहितव्योमसीमा महिम्ना वीक्ष्य क्षुण्णो ययारिस्तृणमिव महिषः सावताद5म्बिका वः ५१ यया महिषोऽरिर्वीक्ष्य तृणमिव क्षुण्णश्चूर्णीकृतः साम्बिका वोऽवतात् । किं कृत्वा । क्षयरयेण प्रलयवेगेन मिलितः स चासावेकार्णवश्च तत्रेच्छया- वगाहस्तं पातालपङ्के कृत्वा । यथादिवराहः प्रलयैकार्णवेऽवगाहं कृतवान्, तथानेन पातालपङ्के कृतमिति भावः । कथंभूत । नेत्रत्रयाग्नेर्दाहाद्विलयनं तेन विगलन्ती ये शृङ्गे ताभ्यां शून्यमुत्तमाङ्गं शिरो यस्य । पुनः कथंभूतः । महिम्ना महत्त्वेनापिहितव्योमसीमाच्छादितगगनप्रान्तः । अत एव क्रीडाक्रो- डाभिशङ्कां लीलावराहभ्रान्तिं विदधत्कुर्वाणः ॥ शूले शैलाविकम्पं न निमिषितमिषौ पट्टिशे साट्टहासं प्रासे सोत्यासमव्याकुलम6पि कुलिशे जातशङ्कं न शङ्कौ । १. 'तुङ्गाः शृङ्गाग्रभूमीः'. २. 'प्रोतकाये', ३. 'पातालपड्केः क्षयरयमि- लितैरर्णवेच्छा-'. ४. 'विलसत्'. ५. 'कालिका वः'. ६. 'इव'.