पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चण्डीशतकम् । स्तर्जन्याः प्रदेशिन्या नखरुचिततयो जयन्ति । कथंभूताः । जन्यस्य सङ्ग्रा- मस्य दूत्यः सङ्ग्रामसूचिकाः । कथंभूताः । दर्पणानल्पो योऽट्टहासस्तेन द्विगु- णतरं सिता अधिकशुक्लीभूताः । कथंभूतायाः । हस्तात् । अर्थात्कंसस्य । उत्पत्य गगनं यान्त्याः । पुनः कथंभूतायाः । अगणितोऽधैर्येण कातरत्वेन वीर्यावलेपो येन तमदितिसुतारातिं देवशत्रु कंसं वैलक्ष्येणेव पाण्डुद्युतिं धवलमापादयन्त्याः ॥ प्रालेयाचलपल्बलैकबिसिनी सार्यास्तु वः श्रेयसे यस्याः पादसरोजसीम्नि महिषक्षोभात्क्षणं विद्रुताः । निष्पिष्टे पतितास्त्रिविष्टपरिपौ गीत्युत्सवोल्लासिनो लोकाः सप्त सपक्षपातमरुतो भान्ति स्म भृङ्गा इव ॥ ५५ ॥ प्रालेयाचलो हिमालयः स एव पल्वलं सरस्तत्रैका मुख्या बिसिनी पद्मिनी आर्या गौरी वः श्रेयसेऽस्तु । यस्याः पादसरोजसीम्नि चरणकमलपर्यन्ते सप्त लोका भृङ्गा इव भान्ति स्म । कथंभूताः । महिषक्षोभात्क्षणं विद्रुताः, त्रिवि- ष्टपरिपौ महिषे निष्पिष्टे सति पतिप्ताः पुनर्मिलिताः । पुनः कथंभूताः । गीत्यु- त्सवोल्लासिनः । पुनः । सपक्षपाताः पक्षपातसहिता मरुतो देवा येषांते । पद्मस्थिता भ्रमरा अपि महिषादिक्षोभे सति क्षणं विद्रवन्ते क्षोभे निवृत्ते पुन- रागच्छन्ति, गीत्युत्सवोल्लासिनः पक्षपातसमुत्पन्नेन मरुतासहिताश्च भवन्ति । आ1प्राप्येषुरुदासितासिरशनेरारात्कुतः शङ्कुत- श्चक्रव्युक्रमकृत्परोक्षपरशुः शूलेन शून्यो यया । मृत्युर्दैत्यपतेः कृतः सुसदृशः पादाङ्गुली2पर्वतः पार्वत्या प्रतिपाल्यतां त्रिभुवनं निःशल्यकल्यं तया ॥ ५६ ।। तया पार्वत्या त्रिभुवनं परिपाल्यताम् । कथंभूतम् । निःशल्यकल्यं निर्ग- तेन महिषरूपशल्येन निरातुरम् । यया पार्वत्या दैत्यपतेर्महिषस्य पादाङ्गुली- पर्वतः सुसदृशो मृत्युः कृतः । कथंभूतो मृत्युः । अप्राप्येषुर्बाणागोचरः । 'उदासितासिर्निर्व्यापारः खड्गो यन्न तादृशः । अशनेर्वज्रस्याराद्दूरे वर्तमानः । १. 'अप्राप्तेषुः'. २. 'पर्वणा'.