पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४ काव्यमाला। मत्वा सव्याजसव्येतर1चरणचलाङ्गुष्ठकोणाभिमृष्टं सद्यो या लज्जितेवासुरपतिमवधीत्पार्वती पातु सा वः॥ ४७ ॥ सव्याजं यथा स्यादेवं सव्येतरचरणस्य वामपादस्य चलाङ्गुष्टकोणेनाभि- मृष्टमसुरपतिं सद्यो यावधीत्सा पार्वती वः पातु । या इति मत्वा लज्जितेव । इतीति किम् । त्रिलोक्याः कर्ता त्रिपुरवधकृती एष ध्यक्षः शिवो मम भर्ता पश्यति । स्त्री क्व, आयोधनेच्छा क्व । न त्विदं सदृशमुचितम् । मया किं प्रस्तुतमारब्धम् ॥ वृद्धोक्षो न क्षमस्ते भवतु भव भवद्वाह एषोऽधुनेति क्षिप्तः पादेन देवं प्रति झटिति यया केलिकान्तं विहस्य । दन्तज्योत्स्नावितानैर2तनुभिरतनुर्यक्कृतार्धेन्दुभाभि- र्गौरो गौरेव जातः क्षणमिव महिषः सावतादम्बिका वः ॥४८॥ हे भव शिव, ते वृद्धोक्षो वृद्धवृषो न क्षमः, अधुना एव महिषो भवद्वाहो भवत्विति केलिकान्तं यथा स्यादेवं विहस्य देवं शिवं प्रति झटिति यया महिषः पादेन क्षिप्तः सा अम्बिका वोऽवतात् । कथंभूतो महिषः । अतनु- भिर्यक्कृतार्धेन्दुभाभिर्दन्तज्योत्स्नावितानैर्गौरः शुभ्रः, अतः क्षणमिव क्षण- मात्रं गौरेव वृष एव जातः॥ प्राक्कामं दहता कृतः परिभवो येन त्रि3संध्यानतैः सेर्ष्या वोऽवतु चण्डिका चरणयोः स्वं पातयन्ती पतिम् । कुर्वत्याभ्यधिकं कृते प्रतिकृतं मुक्तेन मौलौ मुहु- र्बाष्पेणाहितकज्जलेन लिखितं स्वं नाम चन्द्रे यया ।। ४९॥ त्रिसंध्यानतैस्त्रिसंध्यानमनैः स्वं पतिं चरणयोः पातयन्ती चण्डिका वोऽवतु । येन पत्या प्राक्पूर्वं कामं दहता परिभवः कृतः । अत एव सेर्ष्या । यया चण्डिकया कृतेऽभ्यधिकं प्रतिकृतं कुर्वत्या आहितकज्जलेन मुहुर्मौलो १. 'चरणनखाङ्गुष्ठकोणेन पिष्ट्वा'. २. 'अलभत तनुभिः'. ३. 'त्रिसंध्या- नतेः'. ४. 'नामेव'.