पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चण्डीशतकम् । २३ णिता या मणितुलाकोटिमणिनूपुरं स एव हुंकारो गर्भे यस्य । पुनः । प्रत्या- सन्नात्ममृत्युप्रतिभयं यथा स्यादेवमसुरैर्वीक्षितः । यमोऽपि कोपारुणो हुंका- रं कुर्वन्महिषोपरिस्थित आसन्नमृत्युभीतैः पुरुषैर्विक्ष्यते ॥ आहन्तुं1 नीयमाना भरविधुरभुजस्रंसमानोभयांसं कंसेनैनांसि सा वो हरतु हरियशोरक्षणाय क्षमापि । प्राक्प्राणानस्य नास्यद्गगनमुदपतद्गोचरं या शिलायाः संप्राप्यागामिविन्ध्याचलशिखरशिलावासयोगोद्यतेव ॥ १५॥ भरविधुरभुजस्रंमानोभयांसं यथा स्यादेवं कंसेनाहन्तुं नीयमाना क्षमापि समर्थापि हरियशोरक्षणायास्य कंसस्य प्राणान्प्राक्पूर्वं नास्यन्नाहरत् , किंतु शिलाया गोचरं विषयं प्राप्य आगामिविन्ध्याचलशिखरशिलावासयोगोद्यतेव गगनमुदपतत्त्, सा व एनांसि पापानि हरतु ॥ साम्ना नाम्नाययोनेर्धृतिमकृत हरेर्नापि चक्रेण भेदा- त्सेन्द्रस्यैरावणस्याप्युपरि 2कलुषितः केवलं दानवृष्टया। दान्तो दण्डेन मृत्योर्न च विफलयथोक्ताभ्युपायो हतोऽरि- र्येनोपायः स पादः सुखयतु भवतः पञ्चमश्चण्डिकायाः ॥४६॥ येन पादेनारिः शत्रुर्महिषो हतः स पञ्चम उपायश्चण्डिकायाः पादो वः सुखयतु । यो महिष आम्नाययोनेर्ब्रह्मणः साम्ना वेदविशेषेण प्रथमोपायेन च धृतिं नाकृत न कृतवान् । हरेश्चक्रेण भेदाद्विदारणाद्वितीयोपायाच्चापि धृतिं परितोषं न कृतवान् । सेन्द्रस्यैरावणस्य दानवृष्ट्या मदवर्षणेन तृतीयोपायेन च केवलमुपरि कलुषितो मलिनत्वं गतः, अथवा क्रोधं गतो न तु तुष्टः । न च मृत्योर्यमस्य दण्डेनायुधेन चतुर्थोपायेन च दान्तो दमितः । अत एवं विफलयथोक्ताभ्युपायः निष्फलीकृतसामाद्युपायः ॥ भर्ता कर्ता त्रिलोक्यास्त्रिपुरवधकृती पश्यति त्र्यक्ष एष क्व स्त्री क्वायोधनेच्छा न तु सदृशमिदं प्रस्तुतं किं मयेति । १. 'आघातम्'. २. 'पुलकितः'. ३. 'नुदतु भवदधम्'.