पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सभारजनशतकम् । दुःखेनोपाज्यंते धर्मः सुखेन तु विनाश्यते । कृच्छूलब्धमिमं त्रातुं नेच्छन्ति मुनयः सुखम् ॥ ८४ ॥ संपाद्यतां वा यत्नेन यद्वा विक्रीयतामयम् । सर्वथा भजतावाप्यो धर्मो भवति नान्यथा ॥ ८५ ।। अर्थवन्तः प्रशस्यन्ते निन्द्यन्ते तद्विनाकृताः । आगमेष्वपि चेदेवमद्भुतं किं शरीरिषु ॥ ८६ ॥ अर्थोऽप्यर्थेन चेत्साध्यः का वार्ता धर्मकामयोः । अर्थः सर्वजगन्मूलमनर्थोऽर्थविपर्ययः ॥ ८७ ॥ कर्मज्ञानं च मोक्षाय कर्मण्यर्थोऽधिकारिता । अतोऽर्थेनैव कैवल्यं न कैवल्येन लभ्यते ॥ ८८ ॥ कथमर्थं निषेधन्तु श्रुतयः स्मृतयोऽपि वा । यासामेकं पदमपि न चलत्यर्थतो विना ।। ८९ ॥ लक्ष्मीश इति गोविन्दो मेरुधन्वेति शंकरः । हिरण्यगर्भ इत्येव ब्रह्मापि बहु मान्यते ॥ ९० ॥ ऊर्ध्वं गच्छन्ति यं त्यक्त्वा यं गृहीत्वा पतन्त्यधः । तस्य गौरवमर्थस्य तावतैवानुमीयताम् ।। ९१ ।। गृहिणा यदि लभ्येत गृहिणी हृदयंगमा । संसार इति को भारस्तं सारमनुपश्यतः ॥ ९२ ।। आहत्य चिनुमः स्वर्गमपवर्गमनुक्रमात् । अनुकूले हि दांपत्ये प्रतिकूलं न किंचन ॥ ९३ ॥ गृहिणीवृत्तिदोषेण गौतमोऽत्यन्ततापितः आतस्थे दुःखविध्वंसं कैवल्यं परमं मुनिः ॥ ९४ ॥ अपि यत्परमं तत्त्वमर्धेन्दुकृतशेखरम् । तस्यापि तावानानन्दः किमस्सजननीं विना ॥ ९५॥