पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। मूर्खाः शमयितुं दुःखं संरभन्ते ततस्ततः । क्षमयैव निगृहन्ति धीराः संरम्भवर्जिताः ॥ ७२ ॥ आ कल्यादा निशीथाच्च कुक्ष्यर्थं व्याप्रियामहे । न च निर्वणुमो जातु शान्तास्तु सुखमासते ॥ ७३ ॥ नायास्यन्ते शरीराणि न दैन्यमवबुध्यते । संभवत्यपि चानन्दः शान्तिमभ्यस्यतां सताम् ।। ७४॥ प्रसीदत्यपरिस्पन्दि पयः कलुषितं यथा । तथाऽशान्तमपि स्वान्तं प्रसीदति शनैः शनैः ॥ ७५ ॥ यत्नेन महता लभ्या दासा द्वित्राः सुखाय नः । शान्तस्य कालादृष्टाद्याः शतं भृत्या अवेतनाः ॥७३॥ अपि मृद्वया गिरा लभ्यः सदा जागर्त्यतन्द्रितः । नास्ति धर्मसमो भृत्यः किंचिदुक्तस्तु धावति ॥ ७७ ॥ अर्थेनोपाय॑ते धर्मों धर्मेणार्थ उपार्ज्य॑ते । अन्योन्याश्रयणं ह्येतदुभयोत्पत्तिसाधनम् ॥ ७८ ॥ विपणिः पुण्यतीर्थानि विक्रेतारस्त्वकिंचनाः । तृणेनाप्यन्ततो धर्मः पर्वसु क्रियते महान् ॥ ७९ ॥ चुलकोदकमात्रेण धान्यमुष्टिव्ययेन वा । मरुभूमिपु दुर्मिक्षे धर्मसस्यं महाफलम् ॥ ८० ॥ धर्मो नर्मसखः कामे गुरुस्तत्त्वोपदेशने । भटः संगररङ्गेषु सचिवोऽर्थसमर्जने ॥ ८१ ॥ भुवि वृक्षो दिवि च्छाया भुवि कूपो जलं दिवि । भुवि यद्गृह्यते विप्रैर्दिवि तद्दीयते सुरैः ।। ८२ ।। कदलीकन्दवद्धमों न रोहति बहिर्गतः । छादितस्तु फलं चारु सूते पनसमूलवत् ॥ ८३ ॥