पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सभारजनशतकम् । लुभ्यन्ति वितरन्तोऽपि कुप्यन्ति सरला अपि । मुह्यन्ति मतिमन्तोऽपि भोक्तुर्भाग्यविपर्ययात् ॥ ६॥ अधीयते विजानन्ति विरज्यन्ति मुहुर्मुहुः । नात्यन्ताय निवर्तन्ते नरा वैषम्यतो विधेः ॥ ६१ ॥ दोहदैरालवालैश्च कियद्वृक्षानुपास्महे । ते तु कालं प्रतीक्षन्ते फलपुष्पसमुद्गमे ॥ ६२ ॥ कः प्रसूते पुरोवातं कः प्रेरयति वारिदम् । प्राप्ते तु श्रावणे मासि भवत्येकार्णवं जगत् ॥ ६३ ॥ कालः करोति कार्याणि काल एव निहन्ति च । करोमीति विहन्मीति मूर्यो मुद्धति केवलम् ॥ ६४ ॥ अपि कालस्य यः कालः सोऽपि कालमपेक्षते । कर्तुं जगन्ति हन्तुं वा कालस्तेन जगत्प्रभुः ॥ ६५ ॥ कालः सदागतिरपि स्थायीव परिचेष्टते । चण्डमारुतवद्विश्वमधरोत्तरयन्क्षणात् ॥ ६६ ॥ कालचालयति प्रायः पण्डितान्पामरानपि । तं चेच्चिकीर्षसि वशे तितिक्षैव महौषधम् ॥ ६७ ॥ रन्धेषु प्रहरिष्यन्तः कति कामादयोऽरयः । क्षणान्नश्यति लोकोऽयं क्षमा चेन्न नियच्छति ॥ ६८॥ अपकारदशायामप्युपकुर्वन्ति साधवः । छिन्दन्तमपि वृक्षः स्वच्छायया किं न रक्षति ॥ ६९ ॥ स्रवत्येव तदा ज्ञानं स्रवत्येव तदा तपः । छिद्रं छिद्रमनुप्राप्य न चेच्छादयति क्षमा ॥ ७० ॥ क्षमा रक्षन्ति ये यत्नात्क्षमां रक्षन्ति ते चिरम् । क्षमास्ते निभृता येषु क्षमास्ते सर्वकर्मसु ॥ ७१ ॥