पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। सर्वत्र लाल्यते शूरो भीरुः सर्वत्र हन्यते । पच्यन्ते केवला मेषाः पूज्यन्ते युद्धदुर्मदाः ।। ४८ ॥ भार्यायाः सुन्दरः स्निग्धो वेश्यायाः सुन्दरो धनी । श्रीदेव्याः सुन्दरः शूरो भारत्याः सुन्दरः सुधीः ।। ४९ ॥ न शौर्य शौर्यमित्येव स्तूयते बुद्धिशालिभिः । किं तु नीत्या समाश्लिष्टं वाग्मित्वमिव मेधया ॥ ५० ॥ शौर्येण लोकसेव्यत्वं शौर्येण क्षितिपालता। शौर्येण लभ्यः स्वर्गोऽपि शौर्य कस्य न साधनम् ।। ५१ ॥ समरेषु नरेन्द्राणां सवनेषु द्विजन्मनाम् । पतिकर्मसु नारीणां शौर्यं भवति भूषणम् ॥ ५२ ।। शौर्ये तुल्ये कथं वृत्तं स्वामी दास इति द्विधा । अन्वयव्यतिरेकाभ्यां नीरैरित्यवधार्यताम् ।। ५३ ॥ न जयाय स्वतः शौर्यं किं तु नीत्योपबृंहितम् । प्रयुक्तं हि जयत्यस्त्रं प्रयोक्ता न स्वतः क्वचित् ॥ ५४॥ इदमेव परं शौर्यमुपायैस्त्रिभिरन्वितम् । इदमेव परं मौर्ख्य॑मुपायैस्त्रिभिरुज्झितम् ॥ ५५ ॥ पराक्रमन्ते युद्धेषु सममेवोभये भटाः । विजयन्तेऽभ्युपायज्ञा विजीयन्ते तदुज्झिताः ॥ ५६ ॥ किं शास्त्रैर्बहुधाभ्यस्तैः किं चातुर्येण किं धिया । किं शौयेणानिवार्येण ललाटे चेन्न लिख्यते ।। ५७ ।। घटमानाः कुटुम्बेषु दरिद्रति विपश्चितः । मूढेषु रमते लक्ष्मीरहो दिष्टस्य चेष्टितम् ॥ ५८ ॥ तुल्यं कर्षन्ति पृथिवीं तुल्यं शास्त्राण्यधीयते । उन्मज्जन्ति निमज्जन्ति दिष्टस्यैकस्य चेष्टया ॥ ५९ ।।