पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सभारञ्जनशतकम् । १९३ अर्थाः साधारणा एव वियुज्यन्ते स्वभावतः । ममतां त्यजतां तेषु महदुत्पद्यते यशः ॥ ३७ ॥ मृतोऽप्यर्थं न मोक्ष्यामि बद्ध्वा नेष्यामि मूर्धनि । इति चेत्सुदृढो लोभः पात्रे देयमशङ्कितम् ॥ ३८ ॥ षष्टिर्देशान्तरे लभ्या शतं दत्त्वात्र नैगमे । पात्रे त्वेकमिहोत्सृज्य परत्रानन्तमाप्यते ॥ ३९ ॥ को दत्ते क इवादत्ते स्वादृष्टं स्वेन भुज्यते । धीभेदमात्रे दातृत्वे क्लिश्यन्ते कृपणाः कियत् ॥ ४० ॥ स्वातन्यं यदि चोरेऽपि भोक्तृत्वं यदि बन्धुषु । निष्कर्षे तु भ्रमः स्वाम्यं तत्त्यक्त्वा लभ्यतां यशः ।। ४१ ।। न धैर्येण विना लक्ष्मीर्न शौर्येण विना जयः । न ज्ञानेन विना मोक्षो न दानेन विना यशः ॥ ४२ ॥ स्वकीयान्भुञ्जते मत्स्याः स्वपत्यानि फणाधराः । बलाबलव्यवस्थेयं बलिनस्त्वकुतोभयाः ४३ ॥ गुरुं हत्वा दिवं यान्ति तृणं छित्त्वा पतन्त्यधः । बलिनां दुर्बलानां च श्रुतयोऽपि द्विधा स्थिताः ॥ ४ ॥ बलिनो बलिनः सिह्यन्त्यबलं तु न गृह्यते । दावं दीपयते चण्डो दीपं व्याहन्ति मारुतः॥ ४५ ॥ बाधका अपि लोकानां बलिनो बिभ्यति स्वयम् । सर्व बलवतः पथ्यं भिषग्भिरपि गीयते ४६॥ शुभप्रारब्धलब्धायि लक्ष्मीः शौर्यविवर्जिते । शोकेन दुःखमाप्नोति षण्ढे कुलवधूरिव ॥ १७ ॥ १. वणिजि.