पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१९२ काव्यमाला। नादातव्यं न दातव्यं न कर्तव्यं च किंचन । सान्त्वमेकं प्रयोक्तव्यं सर्वं तस्य वशे जगत् ।। २५॥ नामरूपात्मकं विश्वं दृश्यते यदिदं द्विधा । तत्राद्यस्य कविर्वेधा द्वितीयस्य चतुर्मुखः ॥ २६ ॥ ज्योतिष्टोमे किमुक्थ्ये किं किमाज्ये किं रथन्तरे। स्तुतिरित्येव हृष्यन्ति सर्वज्ञा अपि देवताः ॥ २७ ॥ न जातिरूपकर्माणि दृश्यन्ते मृदुभाषिणि । पक्षिणो मलिनास्तत्र परपुष्टा निदर्शनम् ॥ २८॥ अर्थहीनोऽपि मधुरः शब्दो लोकप्रियंकरः । वीणावेणुमृदङ्गादीन्यत्रोदाहरणानि नः ॥ २९ ॥ जिघांसन्तोऽपि पशवो रुदन्तोऽपि स्तनंधयाः । घ्नन्तोऽपि रिपवो युद्धे वशमायान्ति सान्त्वतः ॥ ३०॥ दातुः प्रतिग्रहीतुश्च यौ हस्तावुत्तराधरौ । तयोरप्यौत्तराधर्यं ताभ्यामेवोपपाद्यते ॥ ३१ ॥ अमर्त्याः सन्तु मा वा चेतनाः सन्त्वचेतनाः । दानमेव पुरस्कृत्य स्तूयन्ते भुवनैस्त्रिभिः ॥ ३२ ॥ देयं द्रव्यमियत्तावद्दानोत्कर्षे न कारणम् । किं त्ववच्छेदराहित्यं धनदाम्बुदयोरिव ॥ ३३ ॥ ददातिराददातिश्च द्वावेतौ परमाद्भुतौ । ययोः स्वाम्यं च दास्यं च लीलामात्रविजृम्भितम् ॥ ३४ ॥ दोषा अपि गुणायन्ते दातारं समुपाश्रिताः । कालिमानं किलालम्ब्य कालमेघ इति स्तुतिः ॥ ३५ ॥ किं दातुरखिलैर्दोषैः किं लुब्धस्याखिलैर्गुणैः । न लोभादधिको दोषो न दानादधिको गुणः ॥ ३६॥