पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सभारञ्जनशतकम्। १९१ शास्त्रेषु दुर्ग्रहोऽप्यर्थः स्वदते कविसूक्तिषु । दृश्यं करगतं रत्नं दारुणं फणिमूर्धनि ॥ १४ ॥ आञ्जस्यं व्यवहाराणामार्जवं परमं धियाम् । स्वातन्त्र्यपि तन्त्रेषु सूते काव्यपरिश्रमः ॥ १५ ॥ साहित्यविद्याहीनानां सर्वशास्त्रविदामपि । समाजं परिपश्यन्ति समजं बुद्धिशालिनः ॥ १६ ॥ अशिक्षितानां काव्येषु शास्त्राभ्यासो निरर्थकः । किमस्त्यनुपनीतस्य वाजपेयादिभिर्मखैः ॥ १७ ॥ अन्धा विद्वज्जनैर्हीना मूका कविभिरुज्झिता । बधिरा गायनैर्हीना सभा भवति भूभृताम् ॥ १८ ॥ साहित्यादपि शास्त्राणि विशिष्टानीति चेन्मतिः । ततोऽपि वेदाध्ययनं ततोऽपि शिवकीर्तनम् ॥ १९ ॥ सन्त्वश्वाः सन्तु मातङ्गाः सन्तु योधाः सहस्रशः । नरेन्द्राणां विशेषेण न विना कविना यशः ॥ २०॥ काणाः कमलपत्राक्षाः कदर्याः कल्पशाखिनः । कातरा विक्रमादित्याः कविदृग्गोचरं गताः ॥ २१ ॥ पारवश्यं वृथा दास्यं पञ्चानामेकदारता । पाण्डवानामभूत्कीर्त्यै पाराशर्यकवेगिरा ॥ २२ ॥ जानाते यन्न चन्द्रार्कौ जानते यत्र योगिनः । जानीते यत्र भोर्गोऽपि तज्जानाति कविः स्वयम् ॥ २३ ॥ सर्वासामपि विद्यानां साहित्यं हि कवेः पदम् । साधारण्येऽपि यत्रैव सारखतपदं ध्रुवम् ॥ २४ ॥ १. समजः, पशुसमूहः,