पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१९० काव्यमाला । सन्ति सर्वविधा मर्त्या न सन्त्येके विपश्चितः । असूर्येणेव लोकेन किं तेन विषयेण नः ॥ २ ॥ उधन्तु शतमादित्या उद्यन्तु शतमिन्दवः । न विना विदुषां वाक्यैर्नश्यत्याभ्यन्तरं तमः ॥ ३ ॥ बहुभ्यो बहु बोद्धव्यं बहुधा बहुवासरान् । बहुकल्पशतस्थायि लब्धुं बहुविधं यशः ॥ ४ ॥ पाषाणाः सर्व एवैते पद्मरागेषु को गुणः । प्रकाशः कश्चिदत्रास्तेऽपरत्र स न विद्यते ॥ ५॥ जात्यन्धा जातिबधिरा जातिमूकाश्च ते जनाः । सम्यगाराधिता यैन सन्तो विज्ञानसिन्धवः ॥ ६ ॥ अपि मानुष्यकं लब्ध्वा भवन्ति ज्ञानिनो न ये। पशुतैव वरा तेषां प्रत्यवायाप्रवर्तनात् ॥ ७ ॥ किं परोक्षं किमध्यक्षं किं लभ्यं किं नु दुर्लभम् । सर्वमैन्द्रियकं वस्तु सर्वं करगतं सताम् ॥ ८ ॥ स्थावरा जङ्गमा मर्त्या ब्राह्मणा मुनयः सुराः । शिव इत्यप्यमी भेदाश्चिदुत्कर्षनिबन्धनाः ॥ ९ ॥ विद्युज्जलधरो वृष्टिश्चन्द्रार्कौ सागरा इति । सर्वमद्भुतमज्ञानाज्जानतां तु न किंचन ॥ १० ॥ तत्र तत्र स्थितैनिकरणैरिव विग्रहः । विद्वद्भिः शोभते देशस्तैविहीनस्त्वमङ्गलः ॥ ११ ॥ अमलीमसमच्छिद्रमक्रौर्यमतिसुन्दरम् । अदेयमप्रतिग्राह्यमहो ज्ञानं महाधनम् ॥ १२ ॥ संदर्भशक्तिहीनानां शब्दाभ्यासो वृथा श्रमः । मुग्धानि लब्ध्वा पुष्पाणि मुण्डितः किं करिष्यति ॥ १३ ॥