पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। निन्दन्ति च प्रशंसन्ति निगमा यद्गृहाश्रमम् । दांपत्यसाम्यवैषम्यभेदादेतद्वयवस्थितिः ।। ९६ ॥ इन्द्रियाण्यनुपक्लेश्य लभ्यं श्रेयो गृहाश्रमे । अतस्तुर्याश्रमं प्राहुरबाधन्यायबाधितम् ॥ ९७ ॥ भुज्यते यत्सुखं धीरैरपमत्तैर्गृहाश्रमे । स्वर्गस्तस्यागसः पूर्तिरपवर्गोऽस्य नित्यता ॥ ९८ ॥ दृष्टदोषोऽपि गार्हस्थ्ये दीर्घदर्शितया स्वयम् । गार्हस्थ्यमेव परमं मेने नैयायिको मुनिः॥ ९९ ।। उच्चावचं जगद्दौःस्थ्यमेक एव निषेधति । प्रविष्टमात्रो नृपतिः प्रपञ्चमिव नः श्रुतिः ॥ १०॥ न राजानं विना राज्यं बलवत्स्वपि मन्त्रिषु । प्राणेष्वसत्सु किं देहश्चण्डवातेन धार्यते ॥ १०१ ॥ मातुः किंचित्पितुः किंचिदाचार्यात्किंचिदाप्यते । सम्यग्विनीतैः शास्त्रेषु सर्वं राज्ञस्तु लभ्यते ॥ १०२ ।। चलन्ति सर्वमर्यादाश्चलिते सति पार्थिवे । पर्वता अपि कम्पन्ते प्रसक्ते कम्पने भुवः ॥ १०३ ।। पल्या मङ्गल्ययोगेन पत्युरायुः प्रवर्धते । प्रकृतीनां तु भाग्येन पार्थिवः सुखमेधते ॥ १०४ ॥ निमितं शतकं साग्रं नीलकण्ठेन यज्वना । सभारञ्जनमेतेन साधयन्तु मनीषिणः ॥ १०५॥ इति श्रीभरद्वाजकुलजलधिकौस्तुभश्रीकण्टमतप्रतिष्ठापनाचार्यचतुरधिकशत- प्रबन्धनिर्वाहकमहाव्रतयाजिश्रीमदप्पयदीक्षितसोदर्यश्रीमदाचादीक्षि- तपौत्रेण श्रीनारायणदीक्षितात्मजेन श्रीभूमिदेवीगर्भसंभवेन श्रीनीलकण्ठदीक्षितेन विरचितं सभारञ्जनशतकम् ।