पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६६ काव्यमाला। निष्पन्देन मयातिविस्मयमयी सत्यस्थितप्रत्यया संहारे खरदूषणत्रिशिरसामेषैव दृष्टा स्थितिः ॥' गजलक्षणपरिचयो यथा मम कनकजानक्याम्-- 'कर्णाभ्यर्णविकीर्णचामरमरुद्विस्तीर्णनिःश्वासवा- ञ्छङ्खच्छक्रविराजिराज्यविभवद्वेषी विलीनेक्षणः । स्मृत्वा राधवकुञ्जरः प्रियतमामेकाकिनी कानने संत्यक्तां चिरमुक्तभोगकवलः क्लेशोष्मणा शुष्यति ॥' तुरगलक्षणपरिचयो यथा ममामृततरङ्गनाम्नि काव्ये- 'आवर्तशोभी पृथुसत्त्वराशिः फेनावदातः पवनोरुवेगः । गम्भीरघोषोऽद्रिविमर्दखेदादश्वाकृतिं कर्तुमिवोद्यतोऽब्धिः ॥ उच्चैःश्रवाः शक्रमुपाजगाम स विश्वसाम्राज्यजयप्रदोऽश्वः । जग्राह हेलाघनशङ्खशब्दनिवेदिताशेषशुभं तमिन्द्रः ॥' (युम्मम्) पुरुषलक्षणपरिचयो यथा कालिदासस्य- 'व्यूढोरस्को वृषस्कन्धः सालप्रांशुर्महाभुजः । आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रितः ॥' द्यूतपरिचयो यथा चन्द्रकस्य- 'यत्रानेके क्वचिदपि गृहे तत्र तिष्ठत्यथैको यत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि चान्ते । इत्थं नेयौ रजनिदिक्सौ तोलयन्द्वाविवाक्षौ कालः काल्या सह बहुकलः क्रीडति प्राणिसारैः ॥' इन्द्रजालपरिचयो यथा श्रीहर्षस्य--- 'एष ब्रह्मा सरोजे रजनिकरकलाशेखरः शंकरोऽयं दोर्भिर्दैत्यान्तकोऽसौ सधनुरसिगदाचक्रचिह्नैश्चतुर्भिः ।