पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५ संधिः] कविकण्ठाभरणम् । १६५ आत्मज्ञानपरिचितिर्यथा मम चित्रभारतनाम्नि नाटके- 'पृथुशास्त्रकथाकन्थारोमन्थेन वृथैव किम् । अन्वेष्टव्यं प्रयत्नेन तत्त्वज्ञैर्ज्योतिरान्तरम् ॥' धातुवादपरिचयो यथा राजशेखरस्य--- 'नखदलितहरिद्राग्रन्थिगौरे शरीरे स्फुरति विरहजन्मा कोऽप्ययं पाण्डुभावः । बलवति सति यस्मिन्सार्धमावर्त्य हेम्ना रजतमिव मृगाक्ष्याः कल्पितान्यङ्गकानि ॥' रत्नपरीक्षापरिचयो भट्टभल्लटस्य---- 'द्रविणमापदि भूषणमुत्सवे शरणमात्मभये निशि दीपकः । बहुविधोर्व्युपकारभरक्षमो भवति कोऽपि भवानिव सन्मणिः ॥' वैद्यकपरिचयो यथा मम पद्यकादम्बर्याम्- 'अङ्गं चन्दनपङ्कपङ्कजबिसच्छेदावलीनं मुहु- स्तापः शाप इवैष शोषणपटुः कम्पः सखीकम्पनः । श्वासाः संवृततारहाररुचयः संभिन्नचीनांशुका जातः प्रागतिदाहवेदनमहारम्भः स तस्या ज्वरः ॥' ज्योतिःशास्त्रपरिचयो यथा विद्यानन्दस्य- 'द्यामालोकयतां कलाः कलयतां छायाः समाचिन्वतां क्लेशः केवलमङ्गुलीर्गणयतां मौहूर्तिकानामयम् । धन्या सा रजनी तदेव सुदिनं पुण्यः स एव क्षणो यत्राज्ञातचरः प्रियानयनयोः सीमानमेति प्रियः ॥' धनुर्वेदपरिचयो यथा मम कनकजानक्याम्- 'आर्यस्यास्त्रधनौघलाघववती संधानसंबन्धिनी स्थाणुस्थानकसौष्ठवप्रणयिनी चित्रक्रियालंकृतिः ।