पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६४ काव्यमाला । चाणक्यपरिचयो यथा मम पद्यकादम्बर्याम्- 'खामी प्रमादेन मदेन मन्त्री कोपेन राष्ट्रं व्यसनेन कोषः। छिद्रेण दुर्गं विषमेण सैन्यं लोभेन मित्रं क्षयमेति राज्ञाम् ॥' वात्स्यायनपरिचयो यथा भट्टदामोदरगुप्तस्य- 'अधरे बिन्दुः कण्ठे मणिमाला कुचयुगे शशप्लुतकम् । तव सूचयन्ति सुन्दरि कुसुमायुधशास्त्रपण्डितं रमणम् ॥' भारतपरिचयो यथा मम देशोपदेशे- 'भगदत्तप्रभावाढ्या कर्णशल्योरकटखना। सेनेव कुरुराजस्य कुट्टनी किं तु निष्कृपा ॥' रामायणपरिचयो यथा भट्टवाचस्पतेः-- 'जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया वचो वैदेहीति प्रतिपदमुदक्षु प्रलपितम् । कृतालङ्काभर्तुर्वदनपरिपाटीषु घटना मयाप्तं रामत्वं कुशलवसुता न त्वधिगता ॥' मोक्षोपायपरिचयो यथा मम मुक्तावल्याम्- 'निरासङ्गा प्रीतिर्विषयनियमोऽन्तर्न तु बहिः स्वभावे भावानां क्षयजुषि विमर्शः प्रतिदिनम् । अयं संक्षेपेण क्षपिततमसामक्षयपदे तपोदीक्षाक्षेपक्षपणनिरपेक्षः परिकरः ॥" १. अयं कुट्टनीमतग्रन्थकर्ता दामोदरगुप्तः कश्मीरमहाराजस्य जयापीडस्य सचिव आसीत्. जयापीडराज्यसमयस्तु ७५५ मितखिस्तसंवत्सरादारभ्य ७८६ मितसंवत्सरपर्यन्तम्. २. इयमार्या कुट्टनीमठे ४०२ एतत्संख्याविशिष्टा वर्तते. बिन्दुमणिमालाशशतकलक्षणं वात्स्यायनकामसूत्रे द्वितीयेऽधिकरणे चतुर्थपञ्च- माध्याययोर्द्रष्टव्यम्.