पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५ संधिः कविकण्ठाभरणम् । १६३ पञ्चमः संधिः। अथ परिचयचारुत्वमाह- नहि परिचयहीनः केवले काव्यकष्टे कुकविरभिनिविष्टः स्पष्टशब्दप्रविष्टः । विबुधसदसि पृष्टः क्लिष्टधीर्वेत्ति वक्तुं नव इव नगरान्तर्गह्वरे कोऽप्यधृष्टः ॥ १ ॥ तत्र तर्कव्याकरणभरतचाणक्यवात्स्यायनभारतरामायणमोक्षोपायात्म- ज्ञानधातुवादरत्नपरीक्षावैद्यकज्यौतिषधनुर्वेदगजतुरगपुरुषलक्षणद्यूतेन्द्र- जालप्रकीर्णेषु परिचयः कविसाम्राज्यव्यञ्जनः । तर्कपरिचयो यथा मम पद्यकादम्बर्याम्-- 'यत्प्राप्यं न मनोरथैर्न वचसा स्वप्नेऽपि दृश्यं न य- तत्रापि स्मरविप्रलब्धमनसां लाभाभिसानग्रहः । मोहोत्प्रेक्षितशुक्तिकारजतवत्प्रायेण यूनां भ्रमं दत्ते तैमिरिकद्विचन्द्रसदृशं खे नूनमाशाऋषिः ॥' व्याकरणपरिचयो यथा भट्टमुक्तिकलशस्य--- 'द्विगुरपि सद्वन्द्वोऽहं गृहे च मे सततमव्ययीभावः ॥ तत्पुरुष कर्म धारय येनाहं स्यां बहुत्रीहिः ॥' भरतपरिचयो यथा भट्टश्रीशिवखामिनः- 'आतन्वन्सरसां खरूपरचनामानन्दि विन्दूदयं भावग्राहि शुभप्रवेशकगुणं गम्भीरगर्भस्थिति । उच्चैवृत्ति सपुष्करव्यतिकरं संसारविष्कम्भकं भिन्धाद्वो भरतस्य भाषितमिव ध्वान्तं पयो यामुनम् ॥' १. विह्नणकवेः प्रपितामहो भट्टमुक्तिकलश इति विक्रमाङ्कदेवचरितेऽष्टादशे सर्गे द्रष्टव्यम्.