पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६२ काव्यमाला। सदोषं यथा भट्टश्रीशिवस्वामिनः-- 'आद्यत्वावधि शिण्ढि शिण्ढि दृढतागूढानि गूढेतरां प्रौढिं ढौकय पिण्ढि पिण्ढि च रुजं रूढापरूढां तया । मूढं मूढममूढयख हृदयं लीद्वाथ मुढ्वा तमः सोऽव्यूढामिति च प्रभापरिवृढाव्यूढा द्रढिम्नेऽस्तु ॥' निर्दोषं यथा श्रीभीमसाहेः सांधिविग्रहिकस्येन्द्रभानो:- 'स्नातुं वाञ्छसि किं मुधैव धवलक्षीरोदफेनच्छटा- छायाहारिणि वारिणि द्युसरितो दिक्पूरविस्तारिणि । आस्ते ते कलिकालकल्मषमषीप्रक्षालनैकक्षमा कीर्तिः संनिहितैव सप्तभुवनखच्छन्दमन्दाकिनी ॥' सगुणदोषं यथा भट्टमयूरस्य- 'अस्तव्यस्तत्वशून्यो निजरुचिरनिशानश्वरं(रः) कर्तुमीशो विश्वं वेश्मेव दीपः प्रतिहततिमिरं यः प्रदेशस्थितोऽपि । दिक्कालापेक्षयासौ त्रिभुवनमटतस्तिग्मभानोर्नवाख्यां यातः शातक्रतव्यां दिशि दिशतु शिवं शोचिषामुद्गमो वः ॥ इति गदितगुणार्थी त्यक्तनिर्दिष्टदोषः कविरुचिरपदस्थश्चक्रवर्तित्वसिद्ध्यै । किमपि कृतविवेकः साधुमध्याधमानां नृप इव परिरक्षेत्संकरं वर्णवृत्तेः ॥२॥ इति श्रीव्यासदासापराख्यक्षेमेन्द्रकृते कविकण्ठाभरणे गुणदोष- विभागश्चतुर्थः संधिः। १. सुवृत्ततिलकेऽयमेव श्लोको रिस्सुनाम्ना लिखितः, तस्मादिन्द्रभानोरेव रिस्तु- रिति नामान्तरमिति भाति. २. अयं सूर्यशतककर्ता मयूरकविरुजयिनीप्रान्ते बाणभट्टसमसमये समुत्पन्न इति सुप्रसिद्धमेव.