पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६० काव्यमाला । चतुर्थः संधिः। अथ गुणदोषविभागः-- काव्यैकपात्रविलसद्गुणदोषदुग्ध- पाथःसमूहपृथगुद्धरणे विदग्धाः । जानन्ति कर्तुमभियुक्ततया विभागं चन्द्रावदातमतयः कविराजहंसाः ॥ १ ॥ तत्र शब्दवैमल्यमर्थवैमल्यं रसवैमल्यमिति त्रयः काव्यगुणाः । शब्दकालुष्यमर्थकालुष्यं रसकालुष्यमिति काव्यदोषाः । सगुणं निर्गुणं सदोषं निर्दोष सगुणदोषं च काव्यम् । शब्दवैमल्यं यथा मम पद्यकादम्बर्याम्-~- 'तत्कालोपनते वयस्यनिधने हा पुण्डरीकेति त- न्मोहव्यञ्जनमश्मभञ्जनमलं जीवस्य संतर्जनम् । कुञ्जव्यापि कपिञ्जलेन करुणं निस्पन्दमाक्रन्दितं येनाद्यापि च तैः स्मृतेन हरिणैः शष्पं परित्यज्यते ॥' अर्थवैमल्यं यथा मम शशिवंशे- 'स्निग्धश्यामलशाद्वले फलतरुच्छायानिपीतातपे चञ्चद्वीचिचयोच्छलत्कलकले निःसङ्गगङ्गातटे । अन्योन्याभिमुखोपविष्टहरिणे खस्थैर्यदि स्थीयते तत्का श्रीः किमकाण्डमङ्गुरसुखैमोहस्य दत्तोऽञ्जलिः ॥' रसवैमल्यं यथा मम पद्यकादम्बर्याम्- 'अथोद्ययौ बालसुहृत्स्मरस्य श्यामाधवः श्यामललक्ष्मभङ्ग्या । तारावधूलोचनचुम्बनेन लीलाविलीनाञ्जनबिन्दुरिन्दुः ॥'