पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३ संधिः] कविकण्ठाभरणम् । १५९ रागोत्सङ्गनिषङ्गिभिः सरसतासंवादिभिर्विभ्रमै- रायुष्यं परमं तया रतिपतेः प्राप्तं मृगाक्ष्या वयः ॥' अलंकारगतो यथा मम लावण्यवत्याम्- 'स्तनौ स्तब्धौ तीक्ष्णं नयनयुगलं निम्नमुदरं भ्रुवोर्वका वृत्तिर्विहितमुनिमारोऽधरमणिः । तथासन्ने देवादियति विषमे दुर्जनगणे गुणी मध्ये हारः स्पृशति तव दोलातरलताम् ॥' रसगतो यथा मम कनकजानक्याम्-- 'अत्रार्यः खरदूषणत्रिशिरसां नादानुबन्धोद्यमे रुन्धाने भुवनं त्वया चकितया योद्धा निरुद्धः क्षणम् । सस्नेहाः सरसाः सहासरभसाः सभ्रूभ्रमाः सस्पृहाः सोत्साहास्त्वयि तद्बले च निदधे दोलायमाना दृशः ॥' प्रख्यातवृत्तिगतो यथा मम शशिवंशे-- 'अग्रं गच्छत यच्छत स्वपृतनां व्यूहक्षितिं रक्षत क्षोणी पश्यत नश्यत द्रुततरं मा मा स्थितिं मुञ्चत । यत्नात्तिष्ठत पृष्ठतस्तनुभिदामुग्रा गतिः पत्रिणा- मित्यासीज्जनभञ्जने रथपथे पार्थस्य पृथ्वी श्रुतिः ॥' इत्युक्त एष सविशेषचमत्कृतीनां सारः प्रकारपरभागविभाव्यमानः। कर्पूरवेध इव वाङ्मधुगन्धयुक्ते- श्चैत्रासवस्य सहकाररसाधिवासः ॥३॥ इति श्रीव्यासदासापराख्यक्षेमेन्द्रकृते कविकण्ठाभरणे चमत्कारकथनं तृतीयः संधिः।