पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३ संधिः कविकण्ठाभरणम् । चमत्कारविरहो यथा मालवरुद्रस्य- 'वेल्लत्पल्लव संमिलल्लत लसत्पुष्प स्फुटत्कुण्ल स्फूर्जद्गुच्छभर क्वणन्मधुकरक्रीडाविनोदाकर । रक्ताशोक सखे दयां कुरु हर प्रारब्धमाडम्बरं प्राणाः कण्ठमुपागताः प्रियतमो दूरे त्वमेवंविधः ॥' चमत्कारो यथा कालिदासस्य---- 'रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणैस्त्यामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि । कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः सर्वं तुल्यमशोक केवलमहं धात्रा सशोकः कृतः ॥' तत्र दशविधश्चमत्कारः-अविचारितरमणीयः, विचार्यमाणरमणीयः, समस्तसूक्तव्यापी, सूक्तैकदेशदृश्यः, शब्दगतः, अर्थगतः, शब्दार्थगतः, अलंकारगतः, रसगतः, प्रख्यातवृत्तिगतश्च । अविचारितरमणीयो यथा मम शशिवंशे- 'शूराः सन्ति सहस्रशः सुचरितैः पूर्णं जगत्पण्डितैः संख्या नास्ति कलावतां बहुतरैः शान्तैर्वनान्ताः श्रिताः । त्यक्तुं यः किल वित्तमुत्तममतिः शक्नोति जीवाधिकं सोऽस्मिन्भूमिविभूषणं शुभनिधिर्भव्यो भवे दुर्लभः ॥' विचार्यमाणरमणीयो यथा मम पद्यकादम्बर्याम्----- 'अङ्गेऽनङ्गज्वरहुतवहश्चक्षुषि ध्यानमुद्रा कण्ठे जीवः करकिसलये दीर्घशायी कपोलः । अंसे वीणा कुचपरिसरे चन्दनं वाचि मौनं तस्याः सर्वं स्थितमिति न तु त्वां विना क्वापि चेतः ॥' १. अत्र कालिदासस्य नाम प्रमादेन लिखितं भाति, यतः प्रसिद्धोऽयं श्लोको यशोचर्मणः