पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५६ काव्यमाला। सप्रसादपदन्यासः ससंवादार्थसंगतिः। निर्विरोधरसव्यक्तिर्युक्तिर्व्याससमासयोः ॥ २१ ॥ प्रारब्धकाव्यनिर्वाहः प्रवाहश्चतुरो गिराम् । शिक्षाणां शतमित्युक्तं युक्तं प्राप्तगिरः कवेः ॥ २२ ॥

इति बहुतरशिक्षालक्षणक्षीणदोषे प्रभवति गतनिद्रे प्रातिभे सुप्रभाते । कविरविरविलुप्तव्याप्तिभिः सूक्तपादै- र्नयति नवनवत्वं भावभावखभावम् ॥ २३ ॥ इति श्रीव्यासदासापराख्यक्षेमेन्द्रकृते कविकण्ठाभरणे [प्राप्तगिरः कवेः शिक्षाकथनं] द्वितीयः संधिः ।

तृतीयः संधिः । अथ शिक्षितस्य कवेः सूक्तिचमत्कारमाह- सुकविरतिशयार्थी वाक्चमत्कारलोभा- दभिसरति मनोज्ञे वस्तुशब्दार्थसार्थे । भ्रमर इव वसन्ते पुष्पकान्ते वनान्ते नवकुसुमविशेषामोदमाखादलोलः ॥ १ ॥ नहि चमत्कारविरहितस्य कवेः कवित्वं काव्यस्य वा काव्यत्वम् । एकेन केनचिदनमणिप्रभेण काव्यं चमत्कृतिपदेन विना सुवर्णम् । निर्दोषलेशमपि रोहति कस्य चित्ते लावण्यहीनमिव यौवनमङ्गनानाम् ॥ २ ॥