पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। पार्ष्ण्यैव पादपश्चाद्धागेनैव सुररिपुं महिषं प्रोषितासुं गतप्राणं कुर्वती पा- र्वती वोऽवतात् । किंभूतया पार्ष्ण्या । अभिहत्याभिधातेन बहलितः सान्द्री- कृतः प्राक्तन आपाटलिमा यस्याः । देवीचरणे नैसर्गिकमारक्तत्वं महिषघात- 'नेन बहुलीभूतमिति भावः । कुतः । खङ्गे पानीयं तिष्ठति तत्प्रत्युत महिष- माह्लादयति न घातयति । पृषत्को बाणः । पक्षपाती पक्षैः पत्रैः पतनशीलः, अथ च महिषस्य पक्षपाती सहायभूतः। शूलेन ईशः शिवो यशोभाक्शिव एवं शूली नान्यः । यदि महिषं प्रति शूलं प्रेष्यते तदायमपि शूली स्यात् । चधार्हे दण्डोऽपि परिलघुः शीघ्रं भाव्यः स्यात् । उत्तिष्ठमानः परो नोपेक्ष्य 'इति । इतीव हेतीरायुधानि हित्वा पार्ष्ण्यैव महिषं व्यापादितवती ॥ कृत्वदृक्कर्म लज्जाजननमनशने शक्र मासून्विहासी- र्वित्तेश स्थाणुकण्ठे जहि गदमगदस्यायमेवोपयोगः । जातश्चक्रिन्विचक्रो दितिज इति सुरांस्त्यक्तहेतीब्रुवन्त्या व्रीडांव्यापादितारिर्जयति विजयया नीयमाना भवानी ॥२१॥ विजयया देव्याः सख्या व्यापादितारिर्भवानी व्रीडां नीयमाना जयति । किंभूतया । त्यक्तहेतीन्सुरानिति ध्रुवन्त्या । इतीति किम् । हे शक्र, ईदृग्ल- ज्जाजननं कर्म युद्धात्पलायनं कृत्वा अनशनेऽभोजनविषयेऽसून्प्राणान्मा वि. हासीर्मा त्यज । अथ च अशनिर्वज्रं तदहितोऽनशनिस्तत्संबोधनं हे अनशने त्यक्तवज्र । युद्धात्पलायनं लज्जाजननम् । यो हि लज्जाजननं कर्मं करोति सोऽनशनेन प्राणांस्त्यजतीति भावः । हे वित्तेश कुबेर, स्थानुकण्ठे गदं रोगं जहि । यतो भवानगदो गदारहित औषधरूपश्च । भवानोनयरूपः संवृत्तोऽतो भवन्मित्रस्य शिवस्य कण्ठरोगं दूरीकुर्विति भावः । हे चक्रिन् विष्णो, दितिजो महिषो विचक्रः सैन्यरहितो जातः । यथा भवांश्चक्रीभूत्वापि त्यक्तचक्र स्तथा महिषोऽपि विचक्र इति भावः॥ देयाद्वो वाञ्छितानि च्छलमयमहिषोत्पेषरोषानुषङ्गा- न्नीतः पातालकुक्षिं हृतभुवनभयो भद्रकाल्याः स पादः । १. 'अर्थश'. २. 'लज्जाम्'. ३. 'दोषा-', ४. 'कृतपरमभयो'.