पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११
चण्डीशतकम् ।

यः कृत्वा लक्ष्यभेदं हृतभुवनभयो गां विभिद्य प्रविष्टः पातालं पक्षपालीपवनकृतपतत्तार्क्ष्यशङ्काकुलाहिः ॥ १८ ॥ महिषितवपुषो महिषीकृतकायस्य विद्विषः पार्वत्या प्रेषितः प्रहितोऽसौ पृ- षत्को बाणो युष्मान्पातु । कथंभूतः पृषत्कः । प्रेतपालस्य यमस्य ये स्वपुरुषाः स्वकीयदूतास्तद्वत्परुषः क्रूरः । कथंभूतस्य विद्विषः । द्युधाम्नां देवानां दुर्वारस्य दुःखेन वारयितुं शक्यस्य । यः पृषत्को लक्ष्यस्य महिषस्य भेदं कृत्वा हृतभु- वनभयः सन् । महिषहिंसनाद्भुवनभयहरणम् । गां भूमिं विभिद्य पातालं प्रविष्टः । कथंभूतः । पक्षपाल्याः पत्रपङ्क्तेः पवनेन कृता पततस्तार्क्ष्यस्य गरु- डस्य शङ्कया आकुला अहयः सर्पा येन सः । पूर्व गरुडेन पातालं प्रविशता पक्षपवनेन फणिनस्त्रासितास्तथा पार्वतीशरेणापीति भावः ॥ वज्रं विन्यस्य हारे हरिकरगलितं कण्ठसूत्रे च चक्रं केशान्बद्ध्वाब्धिपाशैधृतधनदगदा प्राक्प्रलीनान्विहस्य । देवानुत्सारणोत्का किल महिषहतौ मीलतो ह्वेपयन्ती ह्रीमत्या हैमवत्या विमतिविहतये तर्जिता स्ताज्जया वः ॥१९॥ जया देव्याः प्रतीहारी वो विमतिविहतये स्ताद्दुर्बुद्धिविनाशाय भवतु । किंभूता। ह्रिमत्या लज्जितया हैमवत्या पार्वत्या तर्जिता । कुतः । प्राक्प्रली- नान्पूर्व पलायितान्महिषहतौ महिषवधे जाते सति मीलत एकीभवतो दे- वान्ह्रेपयन्ती लजितान्कुर्वाणा । किं कृत्वा ह्रेपयन्ती | हरिकरगलितं महि- षभीत्या इन्द्रहस्ताच्युतं वज्रं हारे विन्यस्य । एवं हरिकरगलितं विष्णुह- स्तात्पतितं चक्रं कण्ठसूत्रे च विन्यस्य । केशानब्धिपाशैर्वरुणपाशैर्बध्द्वा । धृत- धनदगदा । तत्त्यक्तायुधधारणेन तेषां हास इति भावः । कथंभूता । उत्सार- णोत्का उत्सारणे दूरीकरणे । देवानामित्यर्थः । उत्का उत्कण्ठिता ॥ खङ्गे पानीयमाह्लादयति हि महिषं पक्षपाती पृषत्कः शूलेनेशो यशोभाग्भवति परिलघुः स्याद्वधार्हेऽपि दण्डः। हित्वा हेतीरितीवाभिहतिबहलितप्राक्तनापाटलिम्ना पार्ष्ण्यैव प्रोषितासुं सुररिपुमवतात्कुर्वती पार्वती वः ॥ २० ॥