पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चण्डीशतकम् । यः प्रादक्षिण्यकाङ्क्षावलयितवपुषा वन्द्यमानो मुहूर्तं शेषेणेवेन्दुकान्तोपलरचितमहानूपुराभोगलक्ष्मीः ॥ २२ ॥ छलमयस्य महिपस्योत्पेष उत्पेषणं तेन यो रोषानुषङ्गः क्रोधसंबन्धस्त- स्मात्पातालकुक्षि नीतो हृतभुवनभयो भद्रकाल्याः स पादो वो वाञ्छितानि देयात् । यः पाद इन्दुकान्तोपलरचितमहानूपुराभोगलक्ष्मीश्चन्द्रकान्तमणि-- घटितनूपुरशोभमानो यः पादः प्रादक्षिण्यवाञ्छया वलयीकृतशरीरेण शेषेण मुहूर्तं वन्धमान इव भाति । देवीपादस्य क्षणं पाताले स्थितस्य चन्द्रकान्तनू-- पुरे शेषकायोत्प्रेक्षणम् ॥ शूलं तूलं नु गाढं प्रहर हर हृषीकेश केशोऽपि वक्र- श्चक्रेणाकारि किं मे पविरवति नहि त्वाष्ट्रशत्रो द्युराष्ट्रम् । पाशाः केशाब्जनालान्यनल न लभसे भातुमित्यात्तदर्पं जल्पन्देवान्दिवौकोरिपुरवधि यया सास्तु शान्त्यै शिवा वः २३ आत्तदर्प गृहीतमदं यथा स्यात्तथा इति देवाञ्जल्पन्दिवौकोरिपुर्देवशत्रु- र्महिषो यया अवधि हतः सा शिवा वः शान्त्यै अस्तु । इतीति किम् । है हर, शूलं अर्थात्तव तूलं नु कर्पासतुल्यं किमु, अतस्त्वं गाढं प्रहर । हे हृषी- केश, तव चक्रेण किं मम केशोऽपि वक्रीकृतः । अपि तु न । हे त्वाष्ट्रशत्रो इन्द्र, तव पविर्वज्रं धुराष्ट्रं स्वर्गदेशं नावति न रक्षति । हे केश जलेश वरुण, तव पाशा अलानालानि कमलनालवदतिमृदवः । हे अनल, भातुं न लभसे। 'मत्प्रभया हतस्त्वमित्यर्थः॥ शार्ङ्गिन्बाणं विमुञ्च भ्रमसि बलिरसौ संयतः केन बाणो गोत्रारे ह्रन्म्यहं ते रिपुममररिपुस्त्वेष गोत्रस्य शत्रुः । दैत्या व्यापाद्यतां द्रागज इव महिषो हन्यते मन्महेऽद्ये- त्युत्प्रास्योमा पुरस्तादनु दनुजतनुं मृद्गती त्रायतां वः ॥ २४ ॥ पुरस्तात्पूर्वमित्युत्प्रास्योपहस्य । अर्थाद्देवान् । अनु पश्चानुजतनुं महिषदेहं १. 'पार्वती पातु सा व २. 'असुररिपुः',