पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५४ काव्यमाला । श्रव्यैरलुप्तपदबन्धतयातिमञ्जु- मञ्जीरवत्तु सुजना जनयन्ति मोदम् ॥' यथा च भट्टबाणस्य- 'कटु क्वणन्तो मलदायकाः खलास्तुदन्त्यलं बन्धनशृङ्खला इव । मनस्तु साधुध्वनिभिः पदे पदे हरन्ति सन्तो मणिनूपुरा इव ॥' भुवनोपजीव्यो यथा भगवान्व्यासः-- तथा चोक्तम्--- 'इदं कविवरैः सर्वैराख्यानमुपजीव्यते । उदयं प्रेप्सुभिर्भूत्यैरभिजात इवेश्वरः ॥" प्राप्तगिरः कवेः शिक्षास्तावदाह- व्रतं सारस्वतो यागः पूर्वं विघ्नेशपूजनम् । विवेकशक्तिरभ्यासः संधानं प्रौढिरश्रमः ॥२॥ वृत्तपूरणमुद्योगः पाठः परकृतस्य च । काव्याङ्गविद्याधिगमः समस्यापरिपूरणम् ॥३॥ सहवासः कविवरैर्महाकाव्यार्थचर्वणम् । आर्यत्वं सुजनैमैत्री सौमनस्यं सुवेषता ॥४॥ नाटकाभिनयप्रेक्षा शृङ्गारालिङ्गिता मतिः । कवीनां संभवे दानं गीतेनात्माधिवासनम् ॥५॥ लोकाचारपरिज्ञानं विविक्ताख्यायिकारसः । इतिहासानुसरणं चारुचित्रनिरीक्षणम् ॥६॥ शिल्पिना कौशलप्रेक्षा वीरयुद्धावलोकनम् । शोकप्रलापश्रवणं श्मशानारण्यदर्शनम् ॥७॥ व्रतिनां पर्युपासा च नीडायतनसेवनम् । मधुरस्निग्धमशनं धातुसाम्यमशोकता ॥८॥