पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२ संधिः] कविकण्ठाभरणम् । १५३ पदकोपजीवी यथा भुक्ताकणस्य- 'यथा रन्ध्रं व्योम्नश्चलजलदधूमः स्थगयति स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः । यथा विधुज्वालोल्लसनपरिपिङ्गाश्च ककुभ- स्तथा मन्ये लग्नः पथिकतरुखण्डे स्मरदवः ॥' यथा चैतभ्द्रातुश्चक्रपालस्य-~- 'सरस्यामेतस्यामुदरबलिवीचीविलुलितं यथा लावण्याम्भो जघनपुलिनोल्लङ्घनकरम् । यथा लक्ष्यश्चायं चलनयनमीनव्यतिकर- स्तथा मन्ये मग्नः प्रकटकुचकुम्भः स्मरगजः ॥' पादोपजीवी यथामरकस्य- 'गन्तव्यं यदि नाम निश्चितमहो गन्तासि केयं त्वरा द्वित्राण्येव दिनानि तिष्ठतु भवान्पश्यामि यावन्मुखम् । संसारे घटिकाप्रणालविगलद्वारा समे जीविते को जानाति पुनस्त्वया सह मम स्वाद्वा न वा संगमः ॥" यथा मम- 'हंहो स्त्रिग्धसखे विवेक बहुभिः प्राप्तोऽसि पुण्यैर्मया गन्तव्यं कतिचिद्दिनानि भवता नास्मत्सकाशात्क्वचित् । त्वत्सङ्गेन करोमि जन्ममरणोच्छेदं गृहीतत्वरः को जानाति पुनस्त्वया सह मम स्याद्वा न वा संगमः ॥" सकलोपजीवी यथार्यभट्टस्य- 'शब्दैर्निसर्गकटुभिर्मलिनखभावाः श्रोत्रं खला निगडवत्परितस्तुदन्ति ।