पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१ संधिः कविकण्ठाभरणम् । १४९ श्रीरामचन्द्र कविना काव्यमिदं व्यरचि विरतिबीजतया। रसिकानामपि रतये शृङ्गारार्थोऽपि संगृहीतोऽत्र । इति श्रीलक्ष्मणभट्टसूनुश्रीरामचन्द्रकविकृतं सटीकं रसिकरञ्जनं नाम शृङ्गारवैराग्यार्थसमानं काव्यं संपूर्णम् ।

महाकविश्रीक्षेमेन्द्रविरचितं कविकण्ठाभरणम् । प्रथमः संधिः। जयति जितसुधाम्भःसंभवद्वाग्भवश्री- रथ सरससमुद्यत्कामतत्वानुभावा । तदनुपरमधामध्यानसंलब्धमोक्षा रविशशिशिखिरूपा त्रैपुरी मन्त्रशक्तिः ॥ १ ॥ शिष्याणामुपदेशाय विशेषाय विपश्चिताम् । अयं सरस्वतीसार क्षेमेन्द्रेण प्रदर्श्यते ॥२॥ तत्राकवेः कवित्वाप्तिः शिक्षा प्राप्तगिर कवेः। चमत्कृतिश्च शिक्षाप्तौ गुणदोषोद्गतिस्ततः ॥३॥ पश्चात्परिचयप्राप्तिरित्येते पञ्च संघयः। समुद्दिष्टाः क्रमेणैषां लक्ष्यलक्षणमुच्यते ॥ ४ ॥ सुविभक्ति समन्वितं बुधैर्गुणसंयुक्तममुक्तसौष्ठवैः । रचितं पदकैः सुवर्णवत्कविकण्ठाभरणं विचार्यताम् ॥५॥ अथेदानीमकवेः कवित्वशक्तिरुपदिश्यते-- प्रथमं तावदिव्यः प्रयत्नः, ततः पौरुषः- ॐ स्वस्त्यङ्कं स्तुमः सिद्धमन्तराद्यमितीप्सितम् । उद्यदूर्जप्रदं देव्या ऋऋलृलृनिगूहनम् ॥ ६॥ ---