पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। १५० एकमैश्वर्यसंयुक्तमोजोवर्धनमौषधम् । अन्तरान्तः कलाखण्डगलद्धनसुधाङ्कितम् ॥ ७॥ चन्द्रोच्छलजलं प्रोज्झदज्ञानं टठसंयुतम् । डम्बरप्रौढकिरणं तथतां दधदुन्नतम् ॥ ८॥ परं फलप्रदं बद्धमूलोद्भवमयं वपुः। स्म्यं लघुवरं शर्म वर्षत्सर्वसहाक्षरम् ॥ ९॥ एतां नमः सरस्वत्यै यः क्रियामातकां जपेत् । क्षेममैन्द्रं स लभते भव्योऽभिनववाग्भवम् ॥ १० ॥ श्वेतां सरस्वती मूर्ध्नि चन्द्रमण्डलमध्यगाम् । अक्षराभरणां ध्यायेद्वामयामृतवर्षिणीम् ॥११॥ त्रिकोणयुगमध्ये तु तडित्तुल्यां प्रमोदिनीम् । स्वर्गमार्गोद्गतां ध्यायेत्पराममृतवाहिनीम् ॥१२॥ निर्विकारां निराकारां शक्तिं ध्यायेत्परात्पराम् । एषा बीजत्रयी वाच्या त्रयी वाक्काममुक्तिसूः ॥ १३ ॥ काव्यक्रियेच्छाङ्कुरमूलभूमिमन्विष्य विश्रान्तिलवेन मोक्षः । अन्यावधाने मदनस्य मोक्षस्तृतीयबीजे सकलेऽस्ति मोक्षः॥१४॥ अथ पौरुषः। तत्र त्रयः शिष्याः काव्यक्रियायामुपदेश्याः । अल्पप्रयत्नसाध्यः, कृच्छ्रसाध्यः, असाध्यश्चेति । तत्र प्रथम:- कुर्वीत साहित्यविदः सकाशे श्रुतार्जनं काव्यसमुद्भवाय । न तार्किकं केवलशाब्दिकं वा कुर्याद्गुरुं सूक्तिविकासविघ्नम् १५