पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४८ काव्यमाला। शृङ्गारे वैराग्ये व्यधायि सद्यः स्फुरत्समग्रार्थम् । श्रीरामचन्द्रकविना काव्यमिदं रसिकरञ्जनं नाम ।। १२९ ॥ शृङ्गारेति । स्पष्टोऽर्थः ॥ प्रख्यातो यः पदार्थैरमृतहरिगजश्रीसखैः श्लोकशाली स्फीतातिस्फूर्तिरुद्यद्बुधमुदनुगिरं क्षीरधी रामचन्द्रः। भ्रान्तोऽस्मिन्मन्दरागः फणिपतिगुणभृज्जातु मज्जेत्कथं न स्यादाधारोऽमुना चेदिह न विरचितः श्रीमता वाङ्मुखेन ॥१३०॥ प्रख्यात इति । अमृतं सुधा हरिगज ऐरावतस्तयोर्या श्रीस्तत्सखैर्माधुर्येण वैशद्येन चामृतैरावतशोभायुतैः पदार्थैः पदैरर्थैश्च श्लोकशाली । अतिस्फूर्तिर्यस्य प्रशस्तशब्दार्थस्फुरणवान् । अनुगिरं वाणीमनु उद्यन्ती बुधानां पण्डितानां मुद्यस्मात् क्षीरवद् धीर्बुद्धिर्यस्य क्षीरनिर्मलमतियों रामचन्द्रःप्रख्यातःप्रसिद्धः अस्मिन् रामचन्द्रे फाणपतेर्गुणं भाष्यव्याख्यानं बिभर्तीति स तथा वैयाकर- णोऽपि भ्रान्तः सन् मन्दो रागो यस्यासौ मन्दादरो जातु कदाचित्कथं न मजेत् । शृङ्गारवैराग्यरूपार्थव्याख्यायां मतिकर्दमे कथं न पतेत् । चेत् इह सपञ्चविंशति शृङ्गारवैराग्यशते अमुना रामचन्द्रेण वाङ्मुखेनार्थद्वयोपन्यासे- नाधारो न विरचितः स्यात् । एतत्कृतटीकाया आधारमप्राप्य मतिकर्दमे पते- देवेत्यर्थः ॥ रामोऽपि रामचन्द्रः । यस्माद् अमृतं, हरिरुचैःश्रवाः, गज ऐरा- वतः, श्रीलक्ष्मीः, तत्सखैः पारिजातादिभिः पदाथैः श्लोकशाली कीर्तिमान् अनुगिरं गिरि मन्दरमनुगम्य स्फीता अत्यन्तं स्फूर्तिः फेनादिना यस्य उद्यन्ती बुधानां देवानां मुत् संतोषो यस्मादेवंविधो यः क्षीरधिः असिन्क्षीरसमुद्रे फणिपतिर्वासुकिः स एव गुणो रज्जुस्तं बिभर्तीति स तथाभूतो मन्दरागो मन्दरपर्वतो भ्रान्तो भ्रमणं प्रातः जातु कदाचित्कथं न मज्जेत् । चेदिह अ- मुना अवाक् अधो मुखं यस्य कूर्मस्यैवंविधेन कूर्मरूपेण श्रीमता विष्णुना विर- चित आधारो न स्यात् । पयःपयोधिमथनप्रस्तावे क्षीरधेरधः कूर्मावतारेण हरिणा मन्दराधारभूतसूतेनाभावि ततो न तस्य मज्जनं वृत्तमिति पौराणिकी कथेति द्वितीयो ध्वनिरूपोऽरोर्थः ॥ श्रृगारवैराग्यशतं सपञ्चविंशत्ययोध्यानगरे व्यधत्त । अब्दे वियद्वारणबाणचन्द्रे (१५८०) श्रीरामचन्द्रोऽनु च तस्य टीकाम् ॥