पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसिकरञ्जनम् । इच्छेत्परमनुसतु प्रतिमासंदर्शनेन विशदरुचिः । अनवाप्य येनयोग भवतो हृदये परं निधीयेत ॥ १२७ ।। इच्छेदिति 1 [वैः जगन्नाथप्रयागमाधवबदरीनारायणादीनां विष्णु- प्रतिमानां तत्र तत्र क्षेत्रे संदर्शनेन विशदा निर्मला रुचिर्यस्यैवंविधः पुरुष- स्तत्तत्तीर्थविष्णुमूर्तिदर्शननिष्पापः परं परमात्मानं प्रकृतेः परत्वान्निराकारम् अनुसर्तुमिच्छेत् । साकारस्य प्रतिमां दृष्ट्वा निर्मलकान्तिः पुमान् निराकारस्यानु- सरणं कर्तुमिच्छेत् । येन पुंसा योग समाधिमनवाप्य भवतः संसारात् अपरं न परं संसारमनतीतं साकारमेव ब्रह्म हृदये निधीयेत स्थाप्येत । योगाभ्या- सस्य सिद्धौ प्रकृतेः पर आत्मा लभ्येत । तदसिद्धौ प्रतिमादिरूपसाकारात्मैव हृदये स्थाप्यते तत एव तदपि सिध्यतीति ।। श्रृ] प्रतिमासं मासं मासं प्रति दर्शनेन अर्थाहतोः ऋतुमनु ऋतुं लक्ष्यीकृत्य सा ते प्रतिवेशिनी विशन्ती अरुचिर्यस्या एवंविधा सती परं पुरु- षमिच्छेत् । अनुमासमृतुदर्शनेन दुःखमनुभवन्ती परपुरुषेच्छां कुर्यादेच । कथमित्यत आह-या इनस्य स्वामिनो भर्तुर्योगं विना परं केवलं भवतस्तव हृ- दये निधीयेत निधिरिवाचरेत् । तत्प्रतिवेशितया तवैव निधिवल्लाभो भवेदिति ॥ अध्यास्य सौरभेयं मौक्तिकरुचिरङ्गणेषु विहितगतिः । मान्यः स एव हृदि मे गौरी वामाङ्गमाश्रिता यस्य ॥१२८॥ अधीति । [वै०--] मौक्तिकवद्रुचिरं स्निग्धं सौरभेयं वृषमध्यास्य आरुह्य गणेषु प्रमथेषु विहिता कृता गतिर्गमनं येन । यस्य वामाङ्गे गौरी आश्रिता स सदाशिव एव हृदि मान्यः । अन्यो मास्तु, स एव शिवो हृदि मेऽस्त्विति वा॥ (श्रृ] आस्यं मुखमधिकृत्य अध्यास्यं सौरभं परिमल: कमलादीना- मिव यस्याः । सेयं पद्मिनी मौक्तिकरुचिः स्निग्धा देदीप्यमाना यस्याः । अङ्ग- णेषु विहिता गतिर्यया अङ्गणमानरिङ्गणशीला । सुकुमारत्वात् गौरी गौराङ्गी वामा स्त्री यस्य पुरुषस्याङ्गमुरःस्थलादिकमाश्रिता स एव मे हृदि मान्य इति पक्षद्वयेऽपि सुधीभिः पदच्छेदभेदेनार्थविशेष ऊहनीयः ।।