पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४६ काव्यमाला। हित्वा तामसतां मनोरथमितां मत्वा कुचेष्टास्थितिं नार्यासत्तिमुपेक्ष्य तां नय निजां नो मुञ्च सीमामपि । भ्रातस्ते भ्रमतः कदापि न भवेदद्वैतसंविद्भवे तस्माद्विस्सर न स्मराहितपदद्वन्द्वानुरागक्रमम् ॥ १२५ ॥ हित्वेति । [ वै ॰] कुत्सिता चेष्टा यस्यामेवंविधा स्थितिर्यस्था एवं - विधां मत्वा मनोरथैरभिलाषैर्युक्तां तामसत्वं तामसत्वं हित्वा त्यक्त्वा आर्याणां सजनानां आसत्तिं नोपेक्ष्य तां सतामासत्तिं निजां सीमां मर्यादां नय । नो मुञ्च न त्यज । हे भ्रातः, भवे संसारे भ्रमतः संचरतो भ्रमयु- क्तस्य वा भ्रमाद्वा तेऽद्वैतबुद्धिः कदापि न भवेत् । तस्मात् स्मराहितः शिव- स्तस्य पदद्वन्द्वेऽनुरागक्रमं न विस्सर । यथा शिवचरणद्वयेऽनुरागो भवति तथा कुरु तत एव ते ज्ञानं भवेत् ॥ [श्रृ ०-] असतां विटानामन्येषां मनोरथमभिलाषं प्राप्तां कुचाभ्या- मिष्टा स्थितिर्यस्या एवंविधां तां नारीणामासत्तिमुपेक्ष्य तां प्रसिद्धा पूर्वोप- भुक्तामन्यैर्विटैरज्ञातां निजां स्वकीयामेव नय । सीमां मर्यादामपि नो मुञ्च । यद्वा इमामपि नो मुञ्चसि पराभिलाषविषयानेकनारीप्रत्यासत्तिमिच्छोरिमामपि न त्यजतस्ते हे भ्रातरद्वैतबुद्धिर्भचे संसारे न कदापि भवेत् । इतस्ततो गम- नेन द्वैतबुद्धिरेव भवेत् । एकावलम्बनेन द्वैतधीर्न स्यात् । तस्मादहितो यः पदद्वन्द्वे स्थलद्वयेऽनुरागक्रमस्तं न स्सर । किं तु विस्सर । यद्वा स्मरेणाहितो यः पदवन्देऽनुरागक्रमस्तं न विस्मर । संततं स्थलद्वयानुरागविशेष स्मरेति ।। रामेतिनामस्मृतिरप्यमन्दमानन्दमाधाय सुधामयीह । मृतायमानेऽप्यमृतायमाना व्यनक्ति साक्षादमृतात्मतां यत् ॥ १२६॥ रामेति । [ वै ०-] इह संसारे राम इति नाम्नः स्मृतिरप्यमृतमयी अ- मन्दमधिकमानन्दमाधाय मृतायमाने चरमावस्थां गतेऽपि अमृतायमाना मोक्षवदाचरन्दी साक्षादव्यवधानेन नित्यमुक्तात्मलाभलक्षणं मोक्षरूपत्वं व्यनक्ति प्रकटयति । अन्ते रामस्मरणेन मुक्तः स्यादिति ॥ [ श्रृ ॰-] रामा स्त्री इति नाम्नः स्मृतिरपि सुधा अमृतम् इह मयि मृ - तायमानेऽपि अमृतायमाना साक्षादमृतात्मतां जीवतो भावं व्यक्तीति ।