पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसिकरञ्जनम् । १४५ प्रायमेवेत्यत आह-सदा अधिकसुरभिणा अतिप्रसिद्धेनानायार्थेनैक्ये जीव- ब्रह्माभेदे स्थिरा मतिर्यस्यैवंविधः पुमानस्मदादिः पञ्चानां भूतानां प्रपञ्चं देह- मपि खलु निश्चयेन अधुना सत्यं न मनुते । किं पुनर्धनादिकमिति ॥ [श्रृ ॰-] सासौ सेयं स्त्री अद्य द्विजपदाले दन्तक्षतान्मणिमालादि- प्रभेदान्समेत्य मा मा इति श्रुतिमधुरवाचाहृतमना रत्यागः सुरतापराधं सुख- मेव कलयतु जानातु । अधिकं सुरभिणा कर्पूरकस्तूरीचन्दनताम्बूलादिना स- दाम्ना समाल्येन मत्प्रेषितेन ऐक्ये मया सहाभिन्नभावे स्थिरा मतिर्यस्या एवं- विधा या पञ्चानां दूतीसख्यादीनां प्रपञ्चं कल्पितविघटनोपायं अधुना खलु निश्चयेन सत्यं न मनुते । ततः प्रसन्ना मम मनोरथं पूरयिष्यतीति ॥ ज्योतिर्मन्ये त्रिनेत्रोद्भवमिह विहरत्कामिचकार्तिदं य- द्रत्याः पत्याथ सद्यः प्रकटितमधिकं पाटवं खात्मभूतेः । एतस्यालोकतोऽमी वयमपहृतहृत्तापतामाप्तवन्तः संतुष्टाः प्रोषितस्त्रीरतिसुखमनसो दुस्तरं निस्तरेम ॥ १२४ ॥ ज्योतिरिति । [ वै ॰-] विहरतः क्रीडतः कामिचक्रस्त्र या अतिर्मनःषी- डा तत्पदं त्रिनेत्रोद्भवं ज्योतिः शिवतृतीयलोचनतेजो मन्ये । यत्तेजः प्राप्य रत्याः पत्या कामेन सद्यः स्वात्मनः स्वशरीरस्य भूतिर्भस्म तस्या अधिकं पाटवं सामर्थ्यं प्रकटितम् । अमी वयमेतस्य शिवदृग्वहिपाटवस्यालोकतो दर्शनादप- हृतहृत्तापत्वं प्राप्तवन्तः संतुष्टाः प्रोषितं दूरे गतं स्त्रीरतिसुखे मनो येषामेव- विधाः सन्तो दुस्तरं संसारसमुद्रं निस्तरेम । भस्मीभूतात्कामात्कामी (?) । अतः कथं संसारसिन्धुं न तरेम ॥ [ श्रृ ॰-] अन्नेर्नेन्नादुद्भूतं ज्योतिश्चन्द्रलक्षणमिह विहरतां कामिनां चक्राणां चक्रवाकाणां मनः पीडाप्रदं मन्ये । यज्योतिश्चन्द्ररूपमवाप्य स- द्य:कामेन स्वात्मनो भूतेरैश्वर्यस्याधिकं पाटवं प्रकटितम् । एतस्य चन्द्रस्या- लोकतो दर्शनाच्चन्द्रिकाया वा अमी वयमपहृतहृत्तापत्वं प्राप्तवन्तः संतुष्टाः प्रोषितानां परदेशं गतानां या स्त्रियस्तद्रगतिसुखे मनो ये षामेवंविधाः सन्तो दुस्तरं काम निस्तरेम । चन्द्रााद्युद्दीपनदर्शनेनाधिककामवेगाद्वयं विदेशस्थ- वधूसमागमेन क्लृप्लेन सुखिनः स्यामेति ॥ १.चतु ॰