पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४४ काव्यमाला। [श्रृ ०] असौ स्त्री वसन्ते वैशाखे प्राप्ते धरणिभृतो राज्ञो यदपत्यं कन्या तदुत्सवविधौ तद्विवाहसंर्दे भवतस्ते अनङ्गस्य कामस्य नवरणं नूत- नरतमङ्गीकुर्यात् । इह प्रसङ्गे अन्यस्यामीहां स्पृहां विहाय माधवपदे वसन्त- स्थाने उपवनादौ कलिता दृष्टाः सुमनसो नानाकुसुमानि चित्तविक्षोभहेतु- भूतानि येन एवंविधस्त्वं स्वमात्मानं प्रथममादौ धीरं विधेहि । अथवा इदं स्वमतं नः कथयेति ॥ प्राज्ञैरनन्तपथपान्यतयासितव्यं नैवान्यथा भवति कामनयोपयोगः । तन्मृम्यतामिह परत्र च सारसाक्षी यागोपि दिव्यसुखहेतुरमानि मान्यैः ॥ १२२ ।। प्राज्ञेति । [वै०--] अनन्तपथं विष्णुमार्गं पान्थत्वेन प्राज्ञैः सुबुद्धिभिः स्थेयम् । अन्यथा कामनया नानाविधया उपयोगः फलसंबन्धो न भवति । सर्वस्यापि नश्वरत्वात् । तत्तर्हि इह संसारे परत्र परलोके च सारे स्थिरांशे साक्षी तदनुभववान् मृग्यतामन्विष्यताम् । स एव सारं वक्ष्यति । यागोऽपि मान्यैर्मन्वादिभिर्दिव्यसुखहेतुत्वेन अमानि अनुमतः ।। [श्रृ ० -] प्राज्ञैश्चतुरैरनन्ता अपरिमिता ये पन्थानस्तत्र पान्थत्वेन संच- रणशीलत्वेन स्थातव्यम् । अनेकानुसंधान विधेयमित्यर्थः । तत्तस्मादिहात्र परत्रान्यत्र वा अन्न नगरे नगरान्तरे वा सारसाक्षी पद्माक्षी मृग्यतामन्वि- प्यताम् । यत्र कापि या मान्यैर्महद्भिः क्षत्रियादिभिरगोपि रक्षिता दिव्य- सुखहेतुरमानि ॥ सुखं सारत्यागः कलयतु समेत्य द्विजपदा- न्यसौ मामेत्यद्य श्रुतिमधुरवाचाहृतमनाः । सदाम्नायार्थेनाधिकसुरभिणैक्यस्थिरमतिः प्रपञ्चं पञ्चानां न खलु मनुते सत्यमधुना ॥ १२३ ।। सुखेति । [वै०--] द्विजपदानि ब्राह्मणस्थानानि समेत्य गत्वा सारत्या- गो यस्य सद्ययशीलः असौ दाता सुखं कलयतु सुखी भवतु । अद्य श्रुत्या वेदेन मधुरवाचा मधुरवेदपाठेन हृतचित्तो मामेति प्राप्नोति । त्वयापि तद्द्त्तं