पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४२ काव्यमाला। सेति । [वै०-] उदाहरणत्वेन पटघटकुलालादिसहितः समस्तो यो न्यायो न्यायशास्त्रं तस्य यत्तत्वं साधर्म्यवैधर्म्यदिना प्रमाणादिषोडशपदार्थ- विवेचनं तन्नोल्लसन्ती या दृग् दृष्टिर्बुद्धिस्तया विरचिता या विविधानां नाना- विधानामात्मनां प्रक्रिया तया भोहितस्य नयं सच्छास्त्रं अनयमसच्छास्त्रं बु- भुत्सोर्बोद्भमिच्छोर्विवेक्तुं बीतबुद्धेस्तव स्वान्तं चित्तं अन्यन्नयं वेदान्तशास्त्रं एकात्मप्रतिपादनरूपं कथमभिनिविशेत ॥ [ श्रृ ०-] सपटौ साञ्चलपरिधानौ घटसमौ स्तनौ यस्यास्तस्या आय- तत्वेन विशालत्वेन उल्लसन्ती या दृग् नेत्रं तया विरचिता या आत्मनः प्रक्रिया नानाविधो विलासस्तया मोहितस्य नयं नीतिम् अनयमनीतिं बुभुत्सोर्विवेक्तुं वीतबुद्धेस्ते स्वान्तमन्तः कथमन्यत्पदार्थमभिनिविशेत ॥ श्रुतो जगति योधरो मधुपवर्गवर्णोद्धृतेः स मेऽतिरुचिरो हृदि स्फुरति साधु गोवर्धनः । द्विजातिपरिशीलनक्रमविदा मयासाद्यते सविद्रुमरुचिः स्फुरन्मृदुपलामृतश्रीधरः ॥ ११९ ॥ श्रुत इति । [वै०-] मधुपवर्गस्य भ्रमरसमूहस्य वर्ण इव वर्णो यस्य स चासुदेवम्तेनोद्धृतेरुद्धरणादुत्पाढ्योन्नयनाज्जगति विश्रुतः ख्यातो यो धरः पर्व- तो गोवर्धनः अतिरुचिरोऽतिमनोज्ञः स मे हृदि साधु यथा स्यात्तथा स्फु- रति । अतो द्विजातीनां ब्राह्मणादीनां परिशीलनक्रमविदा यात्राक्रमज्ञेन मया आसाद्यते आसादयिप्यते । कीदृशः । वीनां पक्षिणां द्रुमाणां या रुचिस्तत्स- हिता स्फुरन्ती या मृदः, उपलानाम् , अमृतस्य जलस्य च श्रीः शोभा तां धारयतीति तथा । ततो मयावश्यं गन्तव्य इति । [श्रृ ० -] योऽधरोऽधरोष्ठः श्रुतो जगति मधु, संसारे मधुस्वरूपः । प- वर्गवर्णानां पफबभमानामुद्धृतेरूच्चारणाद् गोवर्धनो वचनवर्धनशीलः । अति- रुचिरो मम हृदि साधु सम्यक्प्रकारेण स्फुरति । द्विजानां दन्तानामतिपरि- शीलनं मणिमालादिनामकक्षतदानं तत्क्रमज्ञेन मया सोऽधर आसाद्यते प्राप्य- ते। कीदृशः । विद्रुमस्य प्रवालस्य रुचिरिव रुचिर्यस्य स्फुरन्ती स्फुटीभवन्ती मृदुनि पले मांसे अमृतश्रीस्तां धारयतीति ॥