पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसिकरञ्जनम् । १४१ हृदि आहिता आरोपिता हृद्या मनोहरा, हिता इष्टा, का तत्वबुद्धिरीशितुः कृष्णस्य भगवतः श्यामाकृतिं गोपालमूर्तिं न लभते । अपि तु लभत एव । तस्वबुद्ध्या सांख्योक्तानां पञ्चविंशतितत्त्वनां गणनायां प्रसक्तया मत्या षडविं- शको विष्णुरिति षड्विंशत्वेन लभ्येतैव । यस्य कृष्णस्य या राधिका सा श्रीर्ल- मीरिव प्रियतमा अभवत् । अग्रे समानम् ॥ [श्रृ ०- ] हृदि हृदये वक्षसि आरोपिता तस्य पुरुषस्य भावस्तत्त्वं तत्र धीर्बुद्धिर्यस्याः पुरुषायितुमनाः ईशितु: प्रियस्य कृतिं प्रियकर्तृकरतच्यापारं तद्वत्स्वयमेव का श्यामा षोडशवार्षिकी युवतिर्न लभते । अपि तु लभत एव । यस्य भगवतः श्रीरिव लावण्येन युवतिर्भवतः प्रियतमा अतिशयेन प्रिया । या सर्वेभ्यो दारेभ्योऽधिका शश्वत्तस्या रते चेतो यस्य तदासक्तचित्तस्य वा तव पुरापुण्यानि अगण्यानि । यद्यतस्तस्या भजनतो ब्रह्मानन्देऽपि मनो मन्दादरम् ॥ यदस्ति मे किंचन तत्समस्तं दास्यामिहास्यामितरेयमेवम् । अकिंचनासत्तिजुषो न लज्जा भवेद्धनं तन्न समर्पितं चेत् ।।११७॥ यदिति । [ वै०-] यत्किंचन मेऽस्ति धनदारादिकं तत्समस्तं दास्यामि, हास्यामि त्यक्ष्यामि । एवं सति तरेयम् । संसारसिन्धुमित्यर्थः । तद्धनं चेस्र समर्पितं तदा अकिंचनानां निष्परिग्रहाणां विरक्तानामासत्तिं सेवमानस्य मॆ लज्जा न भवेत् । अपि तु भवेदेव ।। [श्रृ ०- ] इह मे यत्किंचनास्ति द्रव्यादिकं तत्समस्तं अस्यां वास्याम् । इतरा इयं स्त्री ऊढा एवमकिंचनैव तिष्ठति । तत्तस्माद्धनं न समर्पितं चेत् तदा अकिंचनाया ऊढाया आसत्तिं सेवमानस्य मे लज्जा न भवेत् , अपि तु भवेदेवेति काकुः । इदानीमूढाप्युपभोगक्षमा वृत्ता । तस्मादियदवधि उप- भुज्यमानदासीहस्तस्थं द्रव्यं गृहीत्वाभरणादिदानेनेयमपि संमाननीयेति ।। सपटघटसमस्तन्यायतत्त्वोल्लसद्दृ- ग्विरचितविविधात्मप्रक्रियामोहितस्य । कथममिनिविशेत स्वान्तमन्यद्बुभुत्सो- स्तव नयमनयं वा वीतबुध्देविवेक्तुम् ॥ ११८ ॥