पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४० काव्यमाला। न चेत्त्विति कुचयोरपलापक्त्रममेव कर्तुं ते शश्वत् हृदयाच्छादनं न तु मृषा- वादेन स्वाभिप्रायगोपनमपि कर्तुमिति ।। नानाबन्धप्रभेदे प्रथमकलितहृत्कञ्चुकग्रन्थिभेदै- रत्यन्तानन्दमन्दीभवदपरमिदं नित्यमात्मानमीहे । स्मारं स्मारं भवाम्भोनिधिमधिकतया दुस्तरं निस्तरीतुं नान्यं पश्याम्युपायं कमपि तदितरं सत्स्वरूपोपलब्ध्यै ॥११५॥ नानेति । [ वै०-] नानाविधा ये बन्धप्रभेदाः कामक्रोधादयस्तत्र प्रथ- मकलिता ये हृत्कञचुकस्याहंकारस्य ग्रन्थेर्भेदा विदारणानि विमोचनानि तैर- त्यन्तानन्देन मन्दीभवन्ती अपरभिदा प्रपञ्चभेदो यत्र तमेवंविधं नित्यमात्मानं ब्रह्म ईहे वाञ्छामि । भवाम्भोनिधिं स्मारं स्मारं अधिकतया दुस्तरं निस्तरीतुं तदितरमुपायं न पश्यामि । सत् सत्तामात्रं यत्स्वरूपं तस्योपलब्ध्यै ॥ [श्रृ ०--] अहं नित्यं प्रत्यहं नानाप्रकारा बन्धभेदा यत्रैवंविधे सुरते प्रथममादौ कलिताः कृता ये कञचुकस्य कूर्पासस्य अन्थीनां भेदा विमोच- नानि तैरत्यन्तं य आनन्दस्तेन मन्दीभवन्ती अपरभिदा अन्यभेदो यत्र तथा- विधमात्मानं वाञ्छामि । अरं शीघ्रं स्मारं स्मरसंबन्धिनं दुस्तरं भवाम्भो- निधिं निस्तरीत्तुं तदितरमुपायं न पश्यामि स्म नापश्यम् । कस्यै । सत्स्वरूपं यस्यास्तस्याः सुन्दर्या उपलब्ध्यै प्राप्त्यै ॥ काश्यामाकृतिमीशितुर्न लभते हृद्याहितातत्त्वधी- र्यस्य श्रीरिव साभवत्प्रियतमा या सर्वदाराधिका । शश्वत्तद्रतचेतसस्तव पुरापुण्यान्यगण्यानि य- द्ब्रह्माद्वैतसुखेऽपि तद्भजनतो मन्दादरं ते मनः ॥११६॥ काश्यामिति । [वै०--] काश्यां हृदि आहिता अतत्त्वधीर्येनैवंविध ईशि- तुः शिवस्याकृतिं विश्वेश्वरादिशिवलिङ्गमूर्तिं न लभते न प्राप्नोति । यस्य शिवस्य का सा प्रियतमा अतिशयेन प्रियाभवत् श्रीरिव या सर्वदा आराधि। लोकैरिति शेषः । शश्वत्सदा तत्र शिवे रतं रक्तं चेतो यस्यैवंविधस्य तव पुरा- पुण्यानि पूर्वजन्मकृतानि अगण्यानि गणयितुमशक्यानि । यद्यस्माध्देतोर्ब्र- ह्याद्वैतसुखेऽपि तद्भजनतस्ते मनो मन्दादरम् । अस्तीति शेषः । विष्णुपक्षे वा