पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसिकरञ्जनम् । १३९ कमलपरम्पराजनितयारुणया दृशा त्वा त्वां अयो लोहं अजिग्रहत् । लोहितदृ - ष्टिच्छलात्फालमेव ग्राहयामासेत्यर्थः । अतस्तत्फलनिभारुणदृष्टिग्रहेण शुद्ध एव स्वमपि तस्याश्चरणारविन्दे भजन्तममन्दमानन्दं भजेः॥ सर्वत्र साक्षिभावं कलयन्ती सपदि शर्म संदधती । संमोहयति मनो मे मूर्तिर्गोपालवंशजन्मापि ॥ ११२ ॥ सर्वेति । [वै०-] नन्दगृहजातापि कृष्णमूर्तिः परब्रह्ममयी मे मनः संमोहयति ध्याने मुग्धं करोति । कीदृशी । सर्वत्र क्षेत्रे साक्षिभावं कलया- न्ती । सपदि शर्म यच्छन्ती । [श्रृ ० -- ] सा स्त्री सर्वत्र अक्ष्णोर्भावं कलयन्ती सपदि शर्म यच्छन्ती आभीर्यपि मूर्ति, मनः संमोहयति ॥ निवसति हृदये स मेघरूपो न तदुपपत्त्यवलम्बि कृत्यमन्यत् । अत उचितमिहैतदेव यत्तत्सुदृढनियन्त्रणमन्तरङ्गसाध्यम् ॥ ११३ ।। निवसतीति । [वै ० ---] मेघरूपो मेघश्यामः कृष्णो हृदये निवसति । तस्य उपपत्तिः प्राप्तिस्तदवलम्बि नान्यत्कृत्यम् । अस्तीति शेषः । अत इहैत- देवोचितं यदन्तरङ्गसाध्यं मनःकार्य तस्य विष्णोः सुदृढ़ नियन्त्रणम् । मनसि दृढ़तया विष्णुः स्थाप्य इति ॥ [श्रृ ० --] अधरूपः पापरूयोऽपराधरूपो वा स पुमान् मे हृदये वसति स चासावुपपतिर्जारस्तदवलम्बि अन्यत्कृत्यं कर्तव्यं न । अत इहैतदेवोचितं यत्स्वान्तरङ्गेण हृदयेन गुह्यप्रदेशेन वा साध्यं तस्स सुदृढनियन्त्रणमिति ॥ असत्यमेतद्विदितं समस्तमकार्यकारीति मृषा प्रपञ्चः। कुचापलापक्रममेव कर्तुमाच्छादनं ते हृदयस्य शश्वत् ॥ ११४ ॥ असत्यमिति । [वै०-] एतद्विश्वं समस्तं असत्यं विदितं ज्ञातम् अकार्य- कारि अर्थक्रियाकारि न भवति । अयं प्रपञ्चो मृषा मिथ्या। कुत्सितं चापलं चपलत्वमेव अपक्रममन्यायं कर्तुं ते हृदयस्य शश्वत् निरन्तरमाच्छादनमिति । [श्रृ ० -] एतच्चयोक्तम् असत्यं मिथ्या । समस्तं विदितं स्वचरितं सर्व ज्ञातम् । अकारि अकारीति प्रपञ्चो मृषा । एतावत्परिणामौ कुचाविति कोऽपि