पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३८ काव्यमाला। आकस्य स्वर्गस्योपाधिः प्रयोजकस्तस्कृतिं समीक्ष्य को नाम कथं विरक्तिं विशे- षेण रक्तिं रागं न कुर्यात् । अत्र निकामं निर्गतः कामो यस्मादेवंविधं अनादिं पुरुषं महेशं को नाम कथं हृदि दध्यात् ॥ भवार्णवस्योत्तरणे सरोजक्चकास्ति नौकेयमहो पुरःस्थिता । सखे सखेदोऽहमनन्यजभ्रमादभूं विहातुं न ततः समुत्सहे ॥१०९॥ भवेति । [वै०-] भवार्णवस्य संसारसिन्धोरुत्तरणे सरोजद्दक पुण्ड-* रीकाक्ष एव इयं पुरःस्थिता नौका चकास्ति प्रकाशते । ततोऽनन्यजः स्वाभा- विको यो भ्रमः अहं ममेति देहगेहादौ ततः सखेदः क्लेशवानहं हे सखे, अमूं कृष्णनावं विहातुं नोत्सहे ।। [श्रृ o--] इयं पद्माक्षी आवयोः पुरःस्थिता भवार्णवस्योत्तरणे उत्तर- णनिमित्तं चकास्ति शोभते । अतोऽहमनन्यजभ्रमास्कामकृतमोहादमूं त्यक्तुं नोत्सहे । इयं सरोजद्द्क् भवार्णवस्योत्तरणे नौकेति वा पूर्ववत् ॥ साधयति धरमपूर्वं पातालं कश्चिदेति कमलार्थी । न खलु सहजानुरागाद्विरमति तृष्णैतयोः कदाचिदपि ॥११०॥ साधेति । [ वै०-] कमलार्थी लक्ष्मीकामः कश्चिदपूर्वमदृष्टपूर्वं धरं पर्वतं असाध्यमपि साधयति । कोऽपि पातालमेति । सहजः स्वाभाविको योऽनुरागो धनविषयस्तस्मात् खलु निश्चयेन एतयोरुभयोरपि तृष्णा कदा- चिदपि न विरमति ॥ [श्रृ o -] सा स्त्री अपूर्वं अकारपूर्वं धरं अधरं धयति पिबति । क- श्चित्कमलार्थी द्रव्यलिप्सुरस्याः सकाशादलमतिशयेनाधरं पातेत्यागच्छति । अग्रे स्पष्टम् ॥ सामानिनीत्वा सलिलात्पयोधेरजिग्रहत्कंजभुवा दृशा यः। भजन्सखे तच्चरणारविन्दे विन्देस्तमानन्दममन्दमाशु ॥१११ ॥ सामेति । [वै०-] पयोधेः समुद्रस्य सलिलात् सामानि । उपलक्षण- मेतत् । सर्वान्वेदान् दैत्याहृतान् यः कृष्णः कंजभुवा ब्रह्मणा दृशा दृष्टया अजिग्रहत् ग्राहयामास । हे सखे । अग्रे स्पष्टम् ॥ [श्रृ ० -] सा मानिनी स्त्री कंजानि कमलानि भवन्त्यस्या इति कंजभुवा