पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसिकरञ्जनम् । १३७ असिन्मासे यदि दृष्टिः असिताः सिताश्च ये कल्लोलास्तद्धटना तव्द्यतिकररूपा अचला अस्मिन्पुरुषे स्थिरा स्यात्तदा इदमीयं सृकृतं को गणयिता ।। अतिचारुचन्द्ररोचिः कुर्वन्कुसुमेषुकेलिकेतनताम् । सुरभिः कदानुयास्यति समुकुलरुचिरस्तनीहारः ॥ १०७ ।। अतीति । [वै०---] अतिचारु चन्द्रोचिश्चन्द्रिका यत्र । कुसुमेषु पुष्पेषु केलिकेतनतां क्रीडावासत्वं कुर्वन् सुरभिर्वसन्तः कदा यास्यति । नु वि- तकें । वित्तविक्षेपहेतुत्वात्तपश्चरतां न निस्तार इति । कीदृशः । समुकुलरुचिः कमलादिकोरककान्तियुक्तः । अस्तनीहारो निरस्तहिमः ॥ [श्रृ ०- -] सुरभिर्वसन्तः कदा अनुयास्यति अनुगतो भविष्यति । कामिन इति शेषः । अतिचारुचन्द्ररोचिः । कुसुमेषुकेले: कामक्रीडायाः केतनतां स्थान- रूपं पताकात्वं वा कुर्वन् । मुकुलसमस्तन्या हारेण सह वर्तते इति तथा ॥ हेया कामधुरा दुराग्रहवता संसारचक्रम्रमे चार्ताभिः प्रसभं प्रवर्तयति या योहान्घकूपे बुधान् । नाकोपाधिकृतिं समीक्ष्य न ततः कुर्याद्विरक्तिं कथं तत्को नाम निकाममत्र पुरुषं दध्यादनादिं हृदि ॥१०८॥ हेयेति । [वै०--] संसारचकन्रमे संसारचके यो भ्रमस्तत्र दुराग्र- हवता पुंसा कामधुरा कंदर्पभारः हेया त्याज्या। या प्रसभं बलान्मोहान्ध- कूपे बुधान्पण्डितानपि वार्ताभिः खकथाभिः प्रवर्तयति । ना पुरुषः अको- पाधिकृतिं अकस्य पापस्य दुःखस्य वा य उपाधिः प्रयोजकस्तत्कृतिं तत्करणं समीक्ष्य ततः पापसाधनात्कथं विरक्तिं न कुर्यात् । तत्तस्मात्को नाम पुमा- नत्र कामधुरायां निकामं अनादिपुरुषं विष्णुं हृदि कुर्यात् । यद्वा कोपजन्यो य आधिर्मनःपीडा तस्कृतिं समीक्ष्य ततः कोपाधिकृतेर्विरक्तिंं न कुर्यात् । तत्तस्मात्कामक्रोधायुभावपि दुःखहेतू ज्ञात्वा निकामं पुरुषं च शब्दं अनादि- मादिवर्णरहितं कामं पुरुषं च हृदि को नाम दध्यादिति ॥ [ श्रृ ०-] मधुरा मनोहरा का स्त्री संसारचक्रे श्रमे दुराग्रहवता पुंसा हैया परिहार्या । या वार्ताभिर्नानाविधाभिश्चातुर्यमर्यादाभिः प्रसभं हठात् बुधान्विदुषोऽपि मोहान्धकूपे प्रवर्तयति । तत्तस्मात्तस्याः सुन्दर्याः सकाशा-