पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३६ काव्यमाला। धिभारेण अधिकं मनः सकल: कलया बलमद्रेण सहितः समग्रो वा सर्वमयो वा गोपस्त्रीकामुकः कृष्णो यन्त्रैवंविधं विनोदय ॥ [श्रृ ० -- ] यदि वयसि तारुण्ये त्वं धनैरशून्यः सहितः तदा वृथाश्रम- परिग्रहो वधूर्यस्यैवंविधस्त्वम् । धनसमृद्धावपि तव स्त्रियाः श्रमो गृहकृत्य- निर्वाहेण वृथैव । कुत इत्यत आह-तव सदैव नैरन्तर्येण दास्या अन्तिके निकटे सुखेन रतादिना वर्तनं स्थितिर्यतः । हे सखे, ममेदं मतं श्रृण्विति- शेषः । सर्वगोपवधूकामुकं मनोभवकृताधिभाराधिकं मनो विनोदय विश्रमय ।। वेत्ति सारतयात्मानं परं चेन्न कदाचन । संसाररसमग्नत्वं तत्कथं विजहात्वसौ ॥ १०५॥ वेत्तीति । [वै०-] सारतया सारत्वेन परमात्मानं चेन्न वेत्ति तर्हि असौ पुमान् संसाररसमग्नत्वं कथं विजहातु । परमात्मनः सारत्वेन ज्ञानः- मन्तरेण संसारमञजनान्न निस्तारः॥ [ श्रृ ०-] सा स्त्री रते रतसमये परमन्यम् आत्मानमपि च चेन्न वेत्ति कदाचित्तदासौ स्त्री एतच्छीली पुरुषो वा संसारसौख्यमग्नतां कथं त्यजतु ॥ विधत्ते सोत्कम्पं स्फुटयति सरोमाञ्चमुदितं कथं मज्जन्माघे पततु निरयप्रापणपथे । यदि स्यान्मासेऽस्मिन्नसितसितकल्लोलघटना- चला दृष्टिस्तत्कः सुकृतमिदमीयं गणयिता ॥ १०६ ॥ विधत्त इति । [वै०-] स्फुटा व्यक्ता यतयो यत्रैवंविधमिदं सरो मां सोत्कम्पमुद्गतकम्पसहितं मुदितं संतुष्टं च करोति । अत्र माघे मजन् पुरुषः कथं निरयप्रापणपथे नरकगमनमार्गे पततु । यद्यस्मिन्मासे माघे दृष्टिः असिताः सिताश्च ये कल्लोला यमुनाया गङ्गायाश्च तेषां घटना परस्परसंबन्धस्तन्नाचला निश्वला स्यात् तर्हि क इदमीयं सुकृतं पुण्यं गणयिता । को ब्रह्मा वा ॥ [श्रृ ०-] सा स्त्री उत्कम्पमुद्गतं कम्पं सात्त्विकभावं शीतजन्यकम्प- गोपितं विधत्ते । स पुरुष उदितं रोमाचं स्फुटयति स्फुटं करोति । सात्त्विक- भावमपि शीतजन्यत्वेन प्रकटयति ।माघस्नानं कुर्वत एवंविधा चेष्टा कथं न नरकाय स्यादित्यत आह-माघे मज्जन् स्नानं कुर्वन् कथं निरयप्रापणपथे पततु