पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसिकरञ्जनम् । १३५ मनादिर्माया अनारतं सुखं नित्यानन्दरूपं ब्रह्म कलयितुं लब्धं समुत्सुकं मर मां मनागपि न मुञ्चति ॥ [श्रृ ० -- ] त्वरग्रतस्त्वरां कुर्वनः समागमाय रहस्यं संकेतस्थलं अन्विध्य - तो मम तस्या आत्मनो हृदयस्य तत्त्वं यदप्यन्विता श्रुतिः श्रवणं यत्र दूतीद्वारकवच:श्रवणेन यद्यपि ज्ञातप्रायं तथापि न स्फुटीभवति विचित्रेण मधुना वसन्तेन अमनाक् अधिकम् अनादिमा आदिमा न प्रौढा यद्यपि प्रथ- मा तथापि वसन्तकुसुमानिलादिवैचिन्यवशात्प्रौढेव या रतं कालयितुं सुखं समुत्सुकमना मा मां न मुञ्चति ॥ वर्णालंकृतिकाम्या साकाङ्क्षायोग्यतासत्तिः । एषा कलितरसज्ञा ननु बहुशोभारतीहितं कुर्यात् ॥ १०३ ॥ वर्णेति । [वै०- ] वर्णमधुरैरलंकृतिभिरुपमादिभिः काम्या । आका- ङ्क्षायोग्यतासत्तिभिः पदधमैंः सहिता । कलिता निवासत्वेन रसज्ञा जिह्वा यया। यद्वा कलितास्तोषिता रसज्ञा रसिका यया । यद्वा कलितो रसज्ञः पर- मात्मा कृष्णो यया । एवंविधा एषा भारती ननु निश्चयेन हितमभीष्टं कृष्ण. कीर्तनादिकं कुर्यात् ॥ [श्रृ ० -] वर्णेन शरीरकान्त्या अलंकृत्यालंकारेण काम्या कमनीया । अकाङ्क्षाभिलाषः, योग्यता संभोगयोग्यता, आसत्तिः संनिधिः परिशीलनं वा तत्सहिता । कलितो रसज्ञो रसिको यया । बह्वी शोभा यस्याः सैषा स्त्री ननु निश्चयेन रतिरूपमीहितमभीष्टं कुर्यात् ॥ वृथाश्रमपरिग्रहो यदि वयस्य शून्यो धनैः सुखेन खलु वर्तनं तद सदैव दास्यन्तिके। इदं मम मतं सखे सकलगोपदारांभिकं विनोदय मनो मनोभवकृताधिभाराधिकम् ॥ १०४॥ वृषेति । [वै०-] हे वयस्य, यदि त्वं धनैः शून्यो निर्धनस्तदा तवा- श्रमपरिग्रहो गार्हस्थ्यस्वीकारो वृथैव । सदैव सुखेनानायासेन वर्तनं तव जी- वनं के दास्यन्ति । तस्मात् है सखे, ममेदं मतं संमतम् मनोभवकृतेना-