पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३८ काव्यमाला। न्ति । यस्साजारभजनास्सद्य: मोक्षानुबन्धिनीविः मोचनानुबन्धसहिता नी- विर्वसनग्रन्धिर्यत्रैवंविधा रतिर्भवति ॥ निरन्तरगुणोल्लसद्रुचिरकाम्यमुक्ताफल- प्रपञ्चविषयस्पृहोपगतलौकिकानन्दभूः । रतीशसमराधिकारमणमात्रलक्ष्यस्थितिः परात्मरतधीरसावतिकृशोदरीदृश्यते ॥ १०१॥ विरेति । [वै०--] परे आत्मनि ब्रह्मणि रता धीर्यस्यासावतिकृशः पु- रुषो दरीदृश्यते भूयो भूयो दृश्यते । कीदृशः । निरन्तरं संततं गुणेषु साधु- संमतेषु उल्लसन्ती रुचिः प्रीतिर्यस्य । अकाम्या अनाशास्या अत एव मुक्ता त्यक्ता निष्फलप्रपञ्चविषया स्पृहा येन । अपगतालौकिकानन्दभुवः प्रमदा- दयो यस्मात् । रतीशसमः कन्दर्पकोटिलावण्यो यो राधिकारमणस्तन्मात्रे लक्ष्ये स्थितिर्यस्य ॥ [ श्रृ ० ] परेण पुरुषेण आत्मनो रते धीर्यस्या असौ स्त्री अतिकृशो- दरी दृश्यते । निरन्तराणि धनानि गुणे सूत्रे उल्लसन्ति रुचिराणि काम्यानि आशास्यानि यानि मुक्ताफलानि तत्प्रपञ्चस्तदाभरणाधिक्यं तद्विषया या स्पृहा तयोपगता लौकिकानन्दभूमिर्मर्यादा यया । रतीशस्य समरे कामयुद्धे अधि- का । रमणश्च माता च श्वश्रूस्ताभ्यामलक्ष्या स्थितिर्यस्याः सा अतिचनुरा कथ- मपि निरोध्दुं न शक्यते ॥ ममत्वरयतः समागमरहस्यमन्विष्यतः स्फुटीभवति नान्वितश्रुति तदात्मतत्त्वं क्वचित् । विचित्रमधुनामनागियमनादिमाया न मा समुत्सुकमनारतं कलयितुं सुखं मुञ्चति ॥ १०२ ॥ ममेति । [ वै०-] ममत्वस्य ममताया रयतो वेगात् तत्प्रसिद्धमात्मतत्त्वं जीवब्रह्मैक्यलक्षणम् अन्वितर: समन्वितर: श्रुतयो यत्र । 'तत्तु समन्वयात्' इति सूत्रोक्तेः । तत्त्वमस्यादिवाक्यविषयम् । समा ये आगमा वेदान्तास्तेषां रहस्यम् । समं यदागमरहस्यं वा । तदन्विष्यतो मम न स्फुटीभवति । वि- चित्रमाश्चर्यम् । एवमनिशं विचारेऽपि न तत्त्वबोधः । यतः अधुनेदानीमिय-