पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसिकरञ्जनम् । श्रुतिर्मया कलिता श्रुता । या श्रुतिः परं ब्रह्मलक्षणमुत्कृष्टं अनवरतं अखण्डा- र्थरूपमानन्दं गमयति ॥ [ श्रृ ० -] असकृदनेकदा न न इति अवधिनिषेधबोधिनी श्रुतिर्वाग्य- स्या: सा मया कलिता रमिता । या परमं नवरतं तमखण्डमर्थरूपं पुरुषार्थ- रूपमानन्दं गमयति प्रापयति सा स्वयमेवागतेत्यर्थः ।। अहह सहजमोहा देहगेहप्रपञ्चे नवरतमतिमग्ना कामिनीविग्रहाप्तिः । तदहमिह विहर्तुं संततामोदमुग्धा खहितमहितकृत्यं हन्त नान्तः स्मरामि ॥ ९९ ॥ अहहेति । [वै०-] देहस्य गेहस्य च प्रपञ्चे मार्जनानुलेपनादिरूपे अनवरसं निरन्तरमतिमन्ना कामिनीविग्रहस्य स्त्रीशरीरस्याप्तिः प्राप्तिस्तस्मादि- है स्त्रीशरीरप्राप्तौ बिहर्तुं क्रीडितुं संततमामोदे सुखे मुग्धा । वस्तुगत्या सु- खाभावात् । हन्त खेदे । स्वहितेन स्वस्यातिशयसुखहेतुना महितं पूजितं कृत्यं कर्म विष्णुपूजनादिकम् । अथवा सुष्टु अहितमः सर्पश्रेष्ठः शेषस्तस्य हितो विष्णुस्तरकृत्यं तञ्चरितमन्तर्न सरामीति । [श्रृ ० -] कामिना योऽयं नीवेर्वसनग्रन्थेर्ग्रहो ग्रहणं तदाप्तिस्तत्प्राप्तिः सा गेहस्य देहस्य च प्रपञ्चे सहजो मोहो यस्या एवंविधास्ति । अहहेति हर्षे । नवरते या मतिपत्र मग्ना च ।तत्ततो हेतोरहमिह नीविग्रहाप्तौ विहर्तुं क्रीडितुं संततमामोदो येनानन्देन परिमलेन वा मुग्धा मोहयुक्ता सुन्दरी वा स्वहितमहितानां शत्रूणां च कृत्यं अन्त: किमपि न स्मरामि हिताहितवि- चारो मम नास्ति। परपुरुषभजनमेकं त्रिजगति सारं वदन्ति धर्मविदः । यस्मादानन्दमयी सद्योमोक्षानुबन्धिनीविरतिः ॥ १०० ।। परेति । [वै०-] धर्मविदः परपुरुषस्य कृष्णस्य भजनमेकं त्रिजगति सारं वदन्ति । यस्मात्सद्यो मोक्षानुगता विरतिवैराग्यं भवति ॥ [श्रृ ०-] कामधर्मविदः परपुरुषस्य भजनमेकं सारं निजगतीति वद -