पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३२ काव्यमाला। अत्यन्तं दीप्र: प्रकाशमानो गुणानां सत्त्वादीनां प्रपञ्चो यत्र त्रिगुणात्ममायाप्र- पञ्चोपादानं साक्षि प्रमाणं यत्र तत्साक्षिप्रमाणकं स्वप्रकाशचैतन्यमेव यन्त्र प्रमाणं कुतश्चिदनावरणं मायावरणरहितं हृष्यन्तो ये महाशया भक्ताः तत्प- रिग्रहयोग्या मूर्तिर्यस्य तदिदं सद्वस्तु स्वरूपतः सत् परमार्थरूपं ब्रह्म वयं हृदि भावयामः॥ [श्रृ ० .] इह हृदि अस्या वक्षसि सद्वयं द्वितयसहितं तद्वस्तु स्तनरूपं भावयामः । कीदृशं तत् । मुक्तानां मौक्तिकानामात्मनश्च रोचिषा अतिदीप्रो गुणप्रपञ्चो यत्र । अक्षिप्रमाणं तत्सहितं साक्षिप्रमाणम् । स्वार्थे कः । साक्षा- देवाक्षिभ्यां दृश्यम्। यतः क्वचिदनावरणं क काञ्चुकाञ्जलावरणशून्यं हृष्यन् रोमा- ञ्जमञ्चन् आनन्दजडो भवन् यो महाञ् शयो हस्तस्तत्परिग्रहयोग्या मूर्तिर्यस्य ।। आलिङ्गदाप्य गोपीं तद्बाहुं सह रिरंसयाधाय । श्रुत्वेति निश्चिनोम्यहमङ्गिषु दुरितामनङ्गस्य ॥ ९६ ॥ आलीति । [वै०--] स हरिगोपीमाप्य तद्बाहुमंसे स्कन्धे आधाय आ- लिङ्गत् इति श्रुत्वा पुराणादौ आङिगषु देहिषु अनङ्गस्य दुर्वारतामहं निश्विनोमि।। [श्रृ ० -- ] कश्चन कामपि गोपीमाप्य रिरंसया सह तद्वाहुमाधायालि- ङ्गत् अतोऽहमङ्गिषु स्मरस्य दुरितां निश्चिनोमि ॥ अनुभूतभवव्यवस्थितिर्जनता का नरताभिलाषिणी । तदवैमि सुखेन संसृतौ कलितानङ्गतयैव निस्तृतिः ॥ ९७ ॥ अन्विति । [वै०-] अनुभूता भवस्य संसारस्य व्यवस्था यया सा का जनता नरताभिलाषिणी । तत्तर्हि कलिता या अनङ्गता अशरीरता तत एव चिराय निस्तार इत्यवैमि ॥ [श्रृ ० -] अनुभूतसंसारव्यवस्था का जनता रताभिलाषिणी न यत- स्ततो हेतोः संसृतौ कलितः स्वीकृतोऽनङ्गो येन स तथा तस्य भावस्तत्ता तयैव चिराय निस्तारो नान्यथेति ॥ असकृन्ननेतिसावधिनिषेधबोधिश्रुतिर्भया कलिता। गमयति परमनवरतं या तमखण्डार्थरूपमानन्दम् ॥ ९८॥ असेति । वै ० -- ] असकृत् 'इदमिदं न' इति सावधेर्निषेधस्स बोधिका