पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसिकरञ्जनम् । [ श्रृ ० ] इह भवसिन्धौ ये करकलिता हस्तेन गृहीता दाराणां नरस्य च केशा यस्मिन्नेवंविधे रते केशाकेशिमदनयुद्धे सजन्त्यासक्ता भवन्ति त एव रसिका मान्या धन्यमात्मानं मन्यन्तां नान्ये॥ विद्येते द्वे सर्वतः श्लाघनीये याभ्यां कष्टं तत्र नात्रापि लोके । तस्मादेने वर्तितात्मश्रुतिस्मृत्याह्वाने न त्यक्तुमीशे वयस्य ॥ ९३ ॥ विद्यते इति । [वै०-] ते द्वे सर्वतः श्लाघनीये विद्ये । याभ्यामत्र तत्रापि लोके इह परन्न च न कष्टम् । हे वयस्य तस्मात् एने, वर्तितं आत्मनः श्रुतिः स्मृतिः इस्याह्वानं याभ्यां ते न त्यक्तुमीशे नोत्सहे ॥ [ श्रृ ० ] ये द्वे सर्वतः श्लाघनीये स्तुत्ये विधेते स्तः । याभ्यां कष्टं न । अत्र तत्र वा । अत्र वा तयोरागमनमस्तु । तत्र वा मम गमनम् । उभय- थापि न कष्टं लोके । यद्वा तत्र लोके पितृसंबन्धिजने याभ्यां कष्टं यथा स्थात्तथा न । अन्नापि न लजितमतिसृष्टत्वात् । तस्माद्वर्तितानि आत्मनः श्रुतिः श्रवणं स्मृत्तिः स्मरणं आह्वानं नाम च एतानि याभ्यां ते एने त्यतुं न प्रभवामि । ताभ्यामेव स्वश्रवणादीनि दूत्यादिद्वारा ख्यापितानि । अतः कष्ट- मपि लोके न । तस्मादेने द्वे अपि न त्यक्ष्यामि ॥ न यथारुचिरम्भारतमाकर्णितमेवमन्यदिह किंचित् । तदिदं हृदि चिन्तयतां यतमानानां कदाचिदपि सिध्येत् ॥९४॥ नेति । [वै०-] आकर्णितं श्रुतं भारतं यथा रुचिरम् एवम् अन्य इह संसारे न । तस्मादिदं हृदि चिन्तयतां यतमानानां यतो मानोऽहंकारी यस्तेषां कदाचिदपि सिध्येत् ॥ [१० - यथारुचि रम्भाया अप्सरोविशेषस्येव रतं समाकर्णितम् । एव- मिहान्यत् किंचित्तत्तस्मादिदं हृदि चिन्तयतां यत्नं कुर्वतः कदाचिदपि मिध्येत् ॥ मुक्तात्मरोचिरतिदीप्रगुणप्रपञ्चं साक्षिप्रमाणकमनावरणं कुतश्चित् । हृष्यन्महाशयपरिग्रहयोग्यमूर्ति तद्वस्तु सद्वयमिदं हृदि भावयामः॥ ९५ ॥ मुक्तेति । [वै ०-] मुक्तं नित्यमुक्तस्वभावं आत्मरोचि स्वप्रकाशरूपं