पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३० काव्यमाला। विषेति । [वै०--] विषयादाचविषक्तमनासक्तं मानसं येषामेवंविधानां नो बह्वी या शोभा तद्विरहोऽपि सुखायैव । तत्तस्मादन्यत्कृत्यं परिह्रत्य कृतं 'राम' इत्युरुणः श्रेष्ठस्य पदस्य नान्नः स्मृतिर्येन स कृती स्यात् ॥ [श्रृ ०-] विषयेषु आद्यविषक्तं मानसं येषामीदृशां नो बहुशः भावि रहोऽपि एकान्तोऽपि सुखाय । तदन्यत्कृत्यं परिह्रत्य कृता रामाया ऊरुपदस्य स्मृतिर्येन एवंविधः सुखी स्यात् ॥ नव्यापृताकुचेष्टा हरिणाक्षीणामुरस्थितिः श्लाघ्या । यस्याः श्रुतिस्मृतिभृतो बिभ्रति रोमाञ्चमुत्तमाः पुरुषाः ॥१०॥ नेति । [ वै०-] नव्या नूतना पृताको सर्पस्य कालियस्य चेष्टा मुरस्य दैत्यस्य स्थितिश्च श्लाघ्या यतो हरिणा कृष्णेन क्षीणा । यस्या हरिणाक्षीणायाः श्रुतिस्मृतिभृतः श्रवणस्मरणकृत उत्तमाः पुरुषा रोमाञ्चं बिभ्रति । [१०-] हरिणाक्षीणां उरःस्थितिक्षास्थितिः श्लाघ्या। कीदृशी।न च्यापृता मर्दनादिव्यापारमप्राप्ता अभुक्ता । कुचाभ्यामिष्टा । अतः स्तुत्या । यस्याः श्रुतिस्मृतिभूत उत्तमा रसिका रोमाचं बिभ्रति ॥ विषमेषुभवेषुवेदनामनुभूयाप्यकृतप्रतिक्रियः । पुरुषो लभतां कथं सुखं यदि सामान्यतनुः करोतु किम् ॥९१॥ विषेति । [ वै०-] विषमेषु उच्चनीचेषु नानाविधेषु भवेषु वेदनां दुःख- मनुभूयापि अकृतप्रतिक्रियः पुमान् कथं सुखं लभताम् । यदि पुन: सामान्य- तनुः सामान्यशरीर एव पश्वादिरेव तदा किं करोतु । अविवेकित्वात् ॥ [ श्रृ ०--] विषमेषुः कामस्तद्भवा या इषुवेदना तामनुभूयापि अकृत- तत्प्रतीकारः पुरुषः कथं सुखं लभताम् । यदि सा स्त्री अमानि प्रतीकारत्वेन ज्ञाता ततो अतनुः कामः किं करोतु ॥ करकलितदारनरकेशेरत इह ये सजन्ति भवसिन्धौ । रसिकास्त एव मान्या मन्यन्तां धन्यमात्मानम् ॥ ९२ ॥ करेति । वै०--] करकलितो दाररूपो नरको यत्र तत्र भवसिन्धौ शेरते स्वपन्ति सजन्त्यासक्ताश्च भवन्ति त एव रसिका मान्या आत्मानं धन्यं मन्यन्ताम् इति कामिनामुपहासः ॥