पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसिकरञ्जनम् । १२९ नासंन्यासितया मयानवरतानन्दस्तथैवाप्यते तन्मे नाद्य वयस्य निश्चलतया चेतोन्यदाकाङ्क्षति । तामासाद्य सदा हिमर्तुमनसोनेहा वृथा यास्यति श्रेयः स्यादथवेत एव कलितादाकृष्टपद्माकरात् ॥ ८७ ॥ नेति । [वै० .] हे वयस्थ, असंन्यासितया तथैव यथा पूर्व गार्हस्थ्ये- नैव अनवरतानन्दो न प्राप्यते तत्तस्मान्मे चेतो निश्चलतया अन्यन्नाकाङ्क्षति । तामसंन्यासितामासाद्य हि निश्चयेन मर्तुमनसो मर्तुकामस्य सांसारिकदुःखा- सहिष्णोरनेहा समयो वृथा थास्यति । अपुरुषार्थत्वेनैव । अथवा इत एव असंन्यासिताया एव आकृष्टः पद्माया लक्ष्याः करो येन तस्मात्कृष्णाकलि- लाञ्चिन्तितात् श्रेयो मोक्षलक्षणं संपत्स्यते । [श्रृ ०-] मया संन्यासितया तत्समानेन ब्रह्मचर्येण तथैवोद्यमं विनापि नवरतजन्यो य आनन्दः स न प्राप्यते । तत्तस्मान्मे चेतो निश्चलतया नव- रतैकनिष्ठतया अन्यत् किमप्याद्यवयसि नवयौवने नाकाङ्क्षति । अथवा तां स्त्रियं कथंचिदासाद्य लब्ध्वा सदा सर्वदा हिमर्तौ शीतकाले मनो यस्य तत्र दत्तचित्तस्य ईहा स्पृहा न वृथा यास्यति । आकृष्टः पाद्मानामाकरो येन तस्मात्क- लिताञिचन्तिताद्धिमर्तोरेव श्रेयः स्यात् । संभोगपर्याप्तरात्रित्वादिति भावः ॥ सहजौ यौवनवृत्ती सार्वदिकासत्तिशालिनौ हृद्यौ । हृदि तौ निरुध्य दधतः कथमात्मभुवोऽपि संभवति भीतिः॥८८॥ सहेति । [वै०-] देवकीगर्भस्यैवाकर्षणेन संकर्षणोत्पत्तेः सहजावेको- दरौ यौ बलकृष्णौ एकचरुभागजन्यत्वेन सहजौ रामलक्ष्मणौ वा वनवृत्ती वृ- न्दावनदण्डकारण्यवासिनौ । सार्वदिकी यासत्तिरेकन्न वासस्तच्छालिनौ । हृद्यौ मनोहरौ तौ हृदि निरुध्य दधत आत्मभुवो ब्रह्मणोऽपि कथं भीतिः संभवति ।। [श्रृ ०-] यो हृद्यौ हृदयोद्भवौ । सहजौ युगपदुत्पन्नौ । यौवने वृत्ति- र्ययोः । सार्वदिकी निरन्तरा यासत्तिस्तच्छालिनौ तौ स्तनौ हृदि निरुध्य दध- तः पुरुषस्य आत्मभुवोऽपि कामादपि भीः कथं संभवतीति ॥ विषयाद्यविषक्तमानसानां बहुशोमाविरहोऽपि नः सुखाय । परिहृत्य तदन्यदत्र कृत्यं कृतरामोरुपदस्मृतिः कृती स्यात् ।। ८९ ।। ९ चतु ०