पृष्ठम्:काव्यमाला (चतुर्थो गुच्छकः).pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२८ काव्यमाला। [श्रृ ०-] हे सखे, हरिणाक्षीणां मृगदृशां सर । कीदृशीनाम् । आद्यो बाणोऽर्थात्स्मरस्य तं भुञ्जत इति आद्यबाणभुजस्तासाम् । रम्भाया अप्सरो- विशेषस्य स्फुटोपमा यासु । पुनः । उत्क्षेपे स्पष्टमूला वराः श्रेष्ठा दोषो बाह- वो यासाम् । करजैर्नखैरनुशीलितानाम् ॥ नवोन्नतपयोघरस्फुटतराम्बराभ्यन्तर- श्रिया हृदयहारितां वहति नीलिमोस्कर्षतः । स्मराहितगलप्रभातिशयशालिनि श्रीधरे मनो मम किरीटिनः कपटमानवेश्यालके ॥ ८५ ॥ नवैति । [ वै०-] मम मनः किरीटिनोऽर्जुनस्य श्यालके कृष्णे वर्तते । किंभूते । कपटमानवे सरस्याहितो भवस्तस्य या गलप्रभा तच्छालिनि । श्री - धरे नीलिन्न उत्कर्षतोऽतिशयात् नवा उन्नता ये पयोधरा मेघास्तैः स्फुटतरं यदम्बरस्याभ्यन्तरं तस्य श्रिया हृदयहारिता मनोहरत्वं वहति दुधाने ॥ [श्रृ ०-] किरीटिनः किरीटयुक्तस्य मम मुकुटवर्धनस्यापि मनः कपट- माना या वेश्या तस्या अलके चूर्णकुन्तले वर्तते । किंभूते । नवयोरुन्नतयोः पयोधरयोः स्फुटतरं यदम्बरं सूक्ष्मं वस्त्रं तस्याभ्यन्तरे या श्रीस्तया नीलि- मोत्कर्षतो हृदयहारितां वहति । स्मरेण कामेन आहितो यो गले प्रभातिश- यस्तच्छालिनि ततः श्रीधरे शोभां वहति ॥ कलयसि वयस्यकस्मात्त्वं रुचिरम्भारतीशास्त्रम् । अत्रोक्तिप्रत्युक्तौ कलय मिथो भूरिशस्त्रपातरणम् ॥ ८६ ।। कलेति । [वै०-] हे वयस्य, त्वं भारती सरस्वत्येव । कस्मात् । शास्त्रं हचिरं मीमांसादिकं कलयसि । अत्र शास्त्रे मिथः परस्परम् उक्तिप्रत्युक्तौ भूरिः शस्त्रपातो यन्त्रैवंविधं रणं युद्धं कलय जानीहि ॥ [श्रृ ०-] वयसि तारुण्येऽकस्माद् रुचौ कान्तौ लावण्ये रम्भा रम्भे- व। रतीशस्य कामस्यास्त्रं कलयसि तद्गोचरीभवसि । अन्न मिथः एकान्ते मम उक्ते: प्रत्युक्तावुत्तरवचने भूरिशः त्रपाया लज्जायास्तरणं विजयं कलय लज्जां वेजित्योत्तरं देहि ॥